SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ का अध्य० २२ ॥१४७॥ उत्तराध्ययनसूत्रम् ॥१४७॥ 6SP प्रव्रज्यामाददे तस्मा-द्गुरोः प्राज्यमहोत्सवैः ॥ २१ ॥ सोऽथ गीतार्थतां प्राप्तः, प्राप्याचार्यपदं क्रमात् ॥ व्यहार्षीद्धर्मदानेना-ऽनुगहणन् भविनो बहून् ॥ २२ ॥ व्यधत्तानशनं प्रान्ते, धनो धनवतीयुतः ॥ विपद्य तौ च सौधर्म-ऽभूतां शक्रसमौ सुरौ ॥ २३ ॥ "इतश्च" भरतेऽत्रैव वैताख्यो-त्तरश्रेणिशिरोमणौ । सूरतेजःपूरे सूर-नामा खेचरचक्रयभृत् ॥ २४ ॥ तस्य विद्युन्मती विद्यु-मेघस्येवाजनि प्रिया । धनजीवश्च्युतः स्वर्गा-तस्याः कुक्षाववातरत् ॥ २५ ॥ पूर्णेऽथ समयेऽसूत, सुतं सा पुण्यलक्षणम् ॥ पिता तस्योत्सवैश्वित्र-गतिरित्यभिधां व्यधात् ॥ २६ ॥ वर्द्धमानः क्रमान्न्यासी-कृता इव गुरोः कलाः ॥ स गृहीत्वाऽखिलाः प्राप, यौवनं रूपपावनम् ॥ २७ ॥ अथ तत्रैव वैताठ्य-पाच्यश्रेणिस्थितेऽभवत् ।। भूमाननङ्गसिंहाख्यो, नगरे शिवमन्दिरे ॥ २८ ॥ 'शशिप्रभाप्रभगुणा, तस्य राज्ञी शशिप्रभा ॥ दिवो धनवतीजीव--श्च्युत्वा तत्कुक्षिमागमत् ॥ २६ ॥ क्रमाच्चाजीजनत्पुत्री, पुण्यरूपां शशिप्रभा ॥ पिता रत्नवतीत्याख्या, तस्याश्चक्रे महोत्सवैः ॥ ३० ॥ क्रमेण वर्द्धमाना सा, स्वीकृत्य सकलाः कलाः ॥ प्रपेदे यौवनं वर्य-चातुर्यामृतसागरम् ॥ ३१ ॥ कः स्यादस्याः पतिरिति, पृष्टः पित्राऽन्यदा मुदा ॥ ज्ञानी कोऽपि जगौ यस्ते, हर्ता दिव्यमसिं करात् ॥ ३२ ॥ यस्योद्धं नित्यचैत्ये च, पुष्पवृष्टिर्भविष्यति ॥ कनीरत्नमिदं मर्त्यरत्नं स परिणेष्यति ॥ ३३ ॥ [ युग्मम् ] आच्छेत्ता खगरत्नं यो, ममापि स महाबलः ॥ जामाता भवितेत्यन्तमु मुदे भूपतिस्ततः ॥ ३४ ॥ अथात्र भरते चक्र-पुरे सुग्रीवभूभुजः ॥ राज्ञौ यशस्विनीभद्रे, अभूतामति वल्लभे ॥३॥ तत्राद्यायाः सुतो जज्ञे, जैनधर्मरतो गुणी ॥ सुमित्रो मित्रवत्सज्जः, सज्जनाब्जप्रमोदने ॥ ३६॥ पद्मावश्छद्मनां समा-ऽपरस्यास्तु सुतोऽभवत् ॥ वैमात्रेयममीभेजु-रितीव गुणवर्जकः ॥३७॥ सत्यस्मिन्मम पुत्रस्य, राज्यं स्वप्नेऽपि दुर्लभम् ॥ इति भद्रा सुमित्रस्या-ऽन्य १ चंद्रकान्तिसदृक् । २ शाश्वच्चैत्ये। ३ रविवत् । ४ अमी गुणाः । KEEEEEEEEEEEEEEVEVEYEG SNARRORS
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy