SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ e उत्तराध्ययनसूत्रम् अध्य०१८ -NENEFeeeeeeeeeeeeeeeeer श्रीउत्तराध्ययनसूत्रं भाग ३॥ अथ अष्टादशमध्ययनम् ॥ उक्त सप्तदशमध्ययनमथाष्टादशं संयतीयाख्यमारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने पापस्थानवर्जनमुक्त, तच्च भोगद्धित्यागेन सञ्जयनृपवद्विधेयमिति सम्बन्धस्यास्येदमादिसूत्रम्मुलम्-कंपिल्ले नयरे राया, उदिण्णबलवाहणे। नामेणं संजए नाम, मिगव्वं उवनिग्गए ॥ १ ॥ व्याख्या--'काम्पील्ये' काम्पील्यनाम्नि नगरे राजा उदीर्णम्-उदयप्राप्तं बलं-चतुरङ्ग वाहनं च-शिबिकादिरूपं यस्य स तथा, स च नाम्ना सञ्जयो 'नामे'ति प्राकाश्ये, ततः सञ्जय इति प्रसिद्धो 'मृगव्यां' मृगयां प्रतीति शेषः, 'उपनिर्गतो' निर्यातः पुरादिति गम्यते, इति सूत्रार्थः ॥ १ ॥ स च कथं निर्गतः ? किं चकारेत्याह-- मूलम्-हयाणीए गयाणीए रहाणीए तहेव य । पायत्ताणीए महया, सव्वओ परिवारिए ॥ २ ॥ मिए छुभित्ता हयगओ, कंपिल्लुजाणकेसरे । भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥३॥ व्याख्या सर्वत्र सुळ्यत्ययात् हयानीकेन गजानीकेन रथानीकेन तथैव च पदातीनां समूहः पादातं तदनीकेन च महता सर्वतः परिवारितः मृगान् ‘क्षिप्त्वा' प्रेर्य 'हयगतो' अश्वारूढः काम्पील्यस्य सम्बन्धिनि केसरनाम्निउद्याने 'भीतान्' त्रस्तान् 'श्रान्तान्' इतस्ततः प्रेरणेन खिन्नान् ‘मितान्' परिमितान् 'तत्र' तेषु मृगेषु मध्ये "वहेइ”ति हन्ति 'रसमूच्छितः' तन्मांसास्वादलुब्ध इति सूत्र| यार्थः ॥ २-३ ॥ तदा च यदभूत्तदाह Veeeeeeeeeeeeeeeeee
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy