________________
उत्तराध्य
यनसूत्रम्
॥६३॥
.
किं मम १ ॥ धनेशे गृह्णति द्रव्यं वणिक्पुत्रस्य किं रुपा १ ॥ २०५ ॥ श्रभ्यधुधसखा धर्मः, क्षत्रियाणां न खल्वयम् ॥ प्र राज्यं राजन्यैर्जनकादपि ॥ २०६ ॥ प्रतिदद्या न तद्राज्यं प्रत्यदान्न हि कोऽपि तत् ॥ तैरित्युक्तस्ततः केशी, किं कार्यमिति पृष्टवान् ? ॥२०७॥ दुष्टास्ते प्रोचुरेतस्मै, विषं दापय केनचित् ।। व्युद्ग्रा हितस्तैस्तदपि प्रतिपेदे स मन्दधीः ! ॥ २०८ ॥ ततः कयाचिदाभीर्या, स भूपः सविषं दधि ॥ तस्मै दापितवांस्तस्मा द्विषं चापाहरत्सुरी || २०६ ॥ विषमिश्रधिप्राप्ति - स्तव तन्मा ग्रहीस्ततः । इत्यूचे च मुनिं देवी, ततः सोऽपि तदत्यजत् ! ॥२१० ॥ विना दधि व्याधिवृद्धौ, भूयः साधुस्तदाददे ॥ तद्विषं च सुरी प्राग्व-ज्जहार व्याजहार च ।। २११ ॥ तृतीयवारमप्येवं, देवताऽपाहरद्विषम् । तद्भक्तिरागविवशा - ऽभ्रमत्तत्पृष्ठतच सा ! || २१२ ॥ अन्यदा च प्रमत्तायां, देव्यां सविषमेव सः ।। बुभुजे दधि भाव्यं हि भवत्येव यथातथा ! || २१४ ॥ त्रिंशद्दिनान्यनशनं, पालयित्वा समाहितः । केवलज्ञानमासाद्य, स राजर्षिः शिवं ययौ ।। २१५ ।। तस्मिन्मुक्तिं गते तत्रा - ऽऽगता सा देवता पुनः । ज्ञात्वा तथा मुनेरन्त--मन्तः कोपं दधौ भृशम् ! ॥ २१६ ॥ साऽथ वीतभये पांशु-वृष्टिं रुष्टा व्यधात्तथा ॥ यथा जज्ञे पुरस्थाने, स्थलं विपुलमुच्चकैः ! ॥ २१७॥ शय्यातरं मुनेस्तस्य, कुम्भकारं निरागसम् ॥ सासुरी सिनपल्यां प्राग्, निन्ये हृत्वा ततः पुरात् ॥२१८॥ तस्य नाम्ना कुम्भकार - कृतमित्याह्वयं पुरम् । तत्र सा विदधे किं वा, दिव्यशक्तेर्न गोचरः ? ॥ २१६ ॥ इतश्च केशिनं राज्ये, यदा न्यास्थदुदायनः ॥ तदा तत्तनयोऽभीचि - रिति दूनो व्यचिन्तयत् ॥२२०॥ प्रभावतीकुक्षिभवे, सनये भक्तिमत्यपि ॥ सुते मयि सति क्ष्मापो, राज्यं यत्केशिने ददौ ॥ २२९ ॥ न हि चक्रे विवेकाऽहं पिता तन्मे विवेक्यपि ।। भागिनेयो हि नाऽऽनेयो, धाम्नीत्युक्तं जडैरपि । ।। २२२ ।। हित्वाऽङ्गजं निजं राज्ये, जामेयं न्यस्यतः पितुः ॥ वारकः कोऽपि किं नासी- दुर्निमित्तमभून्न किम् ? ॥ २२३ ॥ प्रभुः पिता मे यदि वा, यथाकामं प्रवर्त्तताम् ॥ न तूदायनसुनोर्मे, युज्यते
अध्य० १८.
॥ ६३॥