________________
उत्तराध्ययनसूत्रम् ॥१२॥
अध्य०१८ ॥१२॥
sveeree EEVEEVEE VEE VEETEEVEEL
भृत् ।। मौलिमेव हि ते मौलौ, पुरा तु दधिरेऽखिलाः ॥१८६॥ तस्मै देशं च तं सत्य-सन्धः सिन्धुप्रभुर्ददौ । अतीतासु च वर्षासु, पुरं| | वीतभयं ययौ ॥१८७॥ वणिजस्ते तु तत्रैव, स्कन्धावारास्पदेऽवसन् ॥ पुरं दशपुरावं त-तैरेव च ततोऽभवत् ॥ १८८ ॥ अन्यदोदा-
यननृपः, पौषधौकसि पौषधी ॥ धर्मजागरिकां जाग्र-द्रजन्यामित्यचिन्तयत् ॥१८६॥ धन्यास्ते नगरपामा-करद्रोणमुखादयः ॥ पवित्रयति यान् श्रीमान् , वर्धमानो जगद्गुरुः!॥१६०॥ श्रुत्वा वीरवीभोवाणी, श्राद्धधर्म श्रयन्ति ये ॥दीक्षामाददते ये च, धन्यास्तेऽपि नृपादयः ! ॥११॥ तच्चेत्पुनाति पादाभ्यां, पुरं वीतभयं विभुः । तदा तदन्तिके दीक्षा-मादाय स्यामहं कृती ! ॥१६२॥ तच्च तचिन्तित ज्ञात्वा, चम्पातः प्रस्थितः प्रभुः ॥ एत्य वीतभयोद्याने, समवासरदन्यदा ॥ १६३ ॥ श्रुत्वाऽथ नाथमायात--मुदायननृपो मुदा ॥ गत्वा नत्वा देशनां च, निशम्येति व्यजिज्ञपत् ।। १६४ ॥ राज्यमङ्गजसात्कृत्वा, व्रतार्थ युष्मदन्तिके ॥ यावदायाम्यहं ताव-पावनीयमिदं वनम् ॥१६॥ प्रतिबन्धं मा कृथास्त्व-मित्युक्तः स्वामिना ततः॥ उदायनो जिनं नत्वा, गृहं गत्वेत्यचिन्तयत् ॥ १६६ ॥ सुतायाभीचये राज्यं, यदि दास्यामि साम्प्रतम् । तदाऽसौ मूच्छितस्तत्र, भ्रमिष्यति भवे चिरम् ! ॥१७॥ आपातसुन्दरं राज्यं, विपाके चातिदारुणम् ॥ तदिदं न हि पुत्राय, दास्ये विषफलोपमम् ! ॥१९८॥ध्यात्वेति राज्ये विन्यस्य, जामेयं केशिनं नृपः ॥ जिनोपान्ते प्रवव्राज, केशिराजकृतोत्सवः ॥१६६। तपोभिरुपवासाद्यै-र्मासान्तरतिदुष्करैः । शोषयन्कर्म कार्य च, राजर्षिविजहार सः ॥२००॥ अन्यदा तद्वपुष्यन्त-प्रान्ताहारैरभूद्रजा ।। भिषजो भेषजं तस्या, रुजोऽभिदधिरे दधि ॥ २०१॥ उदायनमुनिप्रष्ठो, गोष्ठेषु व्यहरत्ततः ॥ दधिभिक्षा हि निर्दोषा, तेष्वेव सुलभा भवेत् ॥२०२॥ पुरे वीतभयेऽन्येद्यरुदायनमनिर्ययौ । केशिभूपस्तदामात्यै-रित्यूचेऽहेतुवैरिभिः ॥२०१॥ परिषहैर्जितो नूनं, मातुलस्तव भूपते ! ॥ राज्यलिप्सुरिहायासी-ततो मा तस्य विश्वसीः ! ॥ २०४ ॥ केश्यूचे राज्यनाथोऽसौ, राज्यं गहणातु
ceivelesleevee VeeVEVLEEVELEGE,