________________
उत्तराध्य
यनसूत्रम्
मूलम्-आणाणिदेसयरे, गुरूणमुववायकारए । इंगिआगारसंपन्ने, से विणीयत्ति वुच्चइ ॥ २॥
" अध्य०१ व्याख्या-आज्ञा,-सौम्य ! इदं कुरु, इदं च माकारिति गुरुवचनं, तस्या निर्देश इदमित्थमेव करोमीति निश्चयाभिधानमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरः । तथा गुरूणां आचार्यादीनां उपपातः समीपदेशावस्थानं, तत्कारकस्तद्विधायी गुरुपार्थावस्थायी, न तु गुर्वादेशादिभीत्या दूरदेशस्थायीति भावः, इंगितं निपुणमतिज्ञेयं प्रवृत्तिनिवृत्तिसूचकं ईषद्भूशिरःकंपाद्याकारः स्थूलधीसंवेद्यः प्रस्था | नादिभावज्ञापको दिगवलोकनादिः, आह च-"अवलोअणंदिसाणं, विअभणं साडयस्स संवरणं ॥ आसणसिढिलीकरणं, पट्ठिअलिंगाई एआई ॥१॥ अनयोद्वे इंगिताकारौ ताभ्यां गुरुगताभ्यां संपन्नो युक्तस्तद्वेदितया इंगिताकारसंपन्नः स इति पूर्वोक्तविशेषणयुक्तो विनेयो विनीतो विनयान्वित इत्युच्यते तीर्थकरायैरिति सूत्रार्थः ।।२।। अविनीतत्वत्यागेन हि विनीतो भवतीति अविनीतस्वरूपमाह ___ मूलम्-आणाणिदेसयरे, गुरूणमणुववायकारए । पडिगीए असंबुद्धे, अविणीएत्ति वुच्चई ॥३॥
व्याख्या-आज्ञानिर्देशं न करोतीत्याज्ञानिर्देशाऽकरः, तथा गुरूणामनुपपातकारक;, प्रत्यनीकः प्रतिकुलवी । कुतोऽयमेवंविधः? | 21 इत्याह-यतो असंबुद्धोऽज्ञाततत्त्वः, सोऽविनीत इत्युच्यते, कूलवालकश्रमणवत्, तथा हि-सरेरेकस्य शिष्योऽभू-दविनीतोऽतिरोषणः॥चुकोप कोपसदनं, शिक्ष्यमाणः स सूरिणा ॥१॥ दक्षया शिक्षया सूरिन्सथापि तमशिक्षयत् ॥ स:तु तामपि मेनेऽन्तविषाक्तविशिखोपमाम् ॥ २ ॥ हितशिक्षा हि दुष्टानां, नोपकाराय जायते ॥ पयःपानमिवाहीनां, किन्तु स्याद्विषवृद्धये ॥ ३ ॥ नत्वाऽन्यदा सिदशैले, जिनानुत्तरतो गुरून् । पेष्टुं दुष्टः स पृष्ठस्थो, गंडशैलमलोठयत् ।।४॥ शब्दायमानमायान्तं, तं च प्रेक्ष्य गुरुद्वैतम् ।।
4%A65453