________________
अध्य०१५
उत्तराध्य- यनसूत्रम् ॥ २५७ ॥
4AAAAAAOROGROOR
सूत्रार्थः ॥ १०॥ तथा
मूलम्-सयणासणपाणभोअणं, विविहं खाइमसाइमं परेसिं।
अदए पडिसेहिए निअंठे, जे तत्थ न पदूसई स भिक्खू ॥ ११ ॥ व्याख्या-शयनासनपानभोजनं विविधं खादिमस्खादिम "परेसिं" ति 'परैः' गृहस्थैः "अदए"त्ति अददद्भिः 'प्रतिषिद्धः कचिकारणान्तरे याचमानोपि निराकृतो 'निर्ग्रन्थो' बाह्याभ्यन्तरग्रन्थरहितो यः 'तत्र' अदाने 'न पदुष्यति' न प्रद्वेषं याति, त्वमेव मे घृतपूरान् दास्यसीति वाचकक्षपकवत् ! स भिक्षुरिति सूत्रार्थः ॥११॥
मूलम्-जं किंचि आहारपाणं, विविहं खाइमसाइमं परेसिं लर्छ ।
___ जो तं तिविहेण नाणुकंपे, मणवयकायसुसंवुडे स भिक्खू ॥१२॥ व्याख्या-'यत्किञ्चिद' अल्पमपि 'आहारपान' अशनपानीयं विविधं खादिमस्वादिमं "परेसिं" ति/'परेभ्यों' गृहस्पेभ्यो 'ल- | ब्ध्वा' प्राप्य यः साधुः "त" ति सुपव्यत्ययात्तेन आहारादिना 'त्रिविधेन' मनोवाकायरूपप्रकारत्रयेण 'नानुकम्पते' बालग्लानादीमोपकुरुते न स भिक्षुरिति शेषः । यस्तु सुसंवृतमनोवाकायः सन् , तेन बालादीननुकम्पते इति गम्यते, स भिक्षुरिति वृद्धव्याख्या। यथादृष्टसूत्रव्याख्याने त्वेवमप्यर्थः सम्भवति, यत्किञ्चिदाहारादिकं पूर्वोक्तं परेभ्यो ग्रहस्थेभ्यो लब्ध्वा यः "त" ति वचनव्यत्यया- | तान् दातृन त्रिविधेन नानुकम्पते, मुधाजीवित्वानोपकर्त्तमिच्छति स मनोवाकायमसंवृतो भिक्षुरिति सूत्रार्थः ।। १२ ।। तथा
VIDEOG551695-
3
॥ २५७॥
१
॥