________________
पनसूत्रम् ॥१३५॥
AR
SONG:-
GRAHARA
मूलम्-दुलहे खलु माणुसे भवे, चिरकलाणवि सव्वपाणिणं।
- गाढा य विवाग कम्मुणो, समयं गोयम मा पमायए ॥४॥ व्याख्या-'दुर्लभो' दुष्प्रापः खलुर्विशेषणे, अपुण्यानामिति विशेषयति, 'मानुषो' मनुष्यसम्बन्धी 'भवो' जन्म, 'चिरकालेनापि' प्रभूतकालेनापि आस्तां स्वल्पकालेनेत्यपिशब्दार्थः, 'सर्वप्राणिनां' सर्वजीवानां । कुत इत्याह-'गाढाः' विनाशयितुमशक्या, च इति यस्मात् , 'विपाका' उदयाः कर्मणां नरगतिविघातिप्रकृतिरूपाणां, यत एवमतः समयमपीत्यादि प्राग्वदिति सूत्रार्थः ॥४॥ कथं पुनर्मनुजत्वं दुर्लभमिति सूत्रदशकेनाहमूलम्-पुढविक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ॥ ५॥
व्याख्या--पृथिवीकायम् 'अतिगतः' प्राप्तः "उक्कोसं"ति उत्कर्षतो जीवः, 'तु।' पूरणे, 'संवसेव' तद्पतयैवावतिष्ठते, कालं | 'सङ्ख्यातीत' असङ्ख्येयोत्सर्पिण्यवसर्पिणीरूपं, अतः समयमपीत्यादि प्राग्वत् ॥५॥
मूलम् -आउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालंसंखाईयं, समयं गोयम मा पमायए ॥६॥ मूलम्-तेउकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोअम मा पमायए ॥७॥ मूलम्-वाउकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईअं, समयं गोयम मा पमायए ॥८॥
व्याख्या-दं सूत्रत्रयं पृथ्वीसूत्रवधाख्येयम् ॥६॥७॥८॥
++RAMA
॥१३५॥