________________
नि A
बजबजस्म ॥२३३॥
+%
| गुरुदत्वेयमित्यङ्गे, वहन् भूति' ततः परम् ॥ निर्लज्जो रोहगुप्तोऽपि, स्वैरं बभ्राम भूतले ॥८९॥ स वैशेषिकसूत्राणि, कल्पयामास च खयम् ॥ पदार्थानियतं द्रव्य-गुणादीन् षट् प्ररूपयन् ॥ ९० ॥ पूर्वोदिताः प्रश्नगणास्त्विह झै-या बृहद्वृत्तिविलोकनेन ॥ आसादितोऽप्येवमपैति बोधि-यत्नादयं तन्ननु रक्षणीयः॥ ९१ ॥ इति षष्ठनिहवकथा ॥६॥ ___ "अथो चतुरशीत्याढयै-वर्षाणां पञ्चभिः शतैः॥ श्रीवीरमुक्तेर्जातस्य, सप्तमस्योच्यते कथा ॥१॥" "तथाहि"-देवेन्द्रवन्दिताः पूर्वो-दिताः श्रीआर्यरक्षिताः ॥ पुरं दशपुरं जग्मु-रन्यदा गच्छसंयुताः ।। २ ॥ तेषां शिप्यास्त्रयोऽभूवन् , विशेषेण विचक्षणाः ॥ तेषु दुर्बलिकापुष्प-मित्रनामादिमो मतः॥ ३ ॥ द्वैतायिकस्तु सूरीणां, सोदेरः फल्गुरक्षितः॥ तृतीयस्त्वमवगोष्ठा-माहिलः सूरिमातुलः॥४॥ तदा च मथुरापुर्या-माययौ कोऽपि नास्तिकः॥ नास्त्यात्मेत्यादिभिर्वाक्यै-लोकान् ब्युद्धा. हयन् वहून् ॥५॥ तत्र चाऽभूत्साधुसङ्घो, न पुनः कोऽपि वादकृत् ॥ नास्तिकस्तु स निग्रायः, कथञ्चिल्लोकवश्चकः ॥ ६॥ इति | वादिनमानेतुं, सङ्घः स मथुरास्थितः ॥ श्रमणान् प्राहिणोत् श्रीमदायरक्षितसन्निधौ ॥ ७॥ इति व्यज्ञपयंस्तेऽपि, गत्वा श्रीआयरक्षितान् ।। लोकान् व्युद्वाहयत्युच्चै-मथुरापुरि नास्तिकः ॥८॥ तत्तं जेतुं स्वयं पूज्या, नगरी पावयन्तु ताम् ॥ प्रेषयन्त्वथवा कश्चि-द्विनेयं वादिजित्वरम् ॥ ९ ॥ ततस्ते सूरयस्तत्र, वृद्धत्वाद्गन्तुमक्षमाः॥ बादलब्धिधरं गोष्ठा-माहिलं प्रेषयंस्तदा ॥१०॥ सोऽपि तत्रागमत्सत्रा-ऽऽह्वातुमागतसाधुभिः ॥ वादे निरुत्तरीचक्रे, तश्च चार्वाकमुग्रधीः ॥११॥ जितकाशी सूरिपार्श्वे, यियासुरपि स व्रती ॥ सङ्काग्रहवशाचत्र, चतुर्मासीमवास्थितः ॥ १२ ॥ इतश्च विश्ववन्द्याः श्री-आर्यरक्षितसूरयः ॥ निजायुःप्रान्तमासमं
, बन्धुः । २ शिष्यम् । ३ सत्र सह।।
5
.