________________
हराध्य यनरत्रम् ॥१५९॥
440454
स्थिते शिशौ । कृपां हित्वाऽऽददे सरि-स्तस्याप्याभरणव्रजम् ॥४७॥ ततोऽप्यग्रे बस्तेज-कायिकाख्यं तृतीयकम् ॥ वीक्ष्याभकमभूत्यूरि-स्तषाग्रहणोद्यतः ॥ ४८ ॥ ततः सोऽपि शिशुः प्राग्व-त्प्रादुष्कृत्य निजाभिधाम् ।। इत्थं कथां कथयितुं, पटुवाक्यैः प्रचक्रमे ॥४९॥ "क्काप्याश्रमे तापसोऽभू-सर्वदा वह्निपूजकः ॥ तस्योटजेऽनलेनैवा-ऽन्यदा दग्धे स इत्यवक् ॥५०॥ यमहं मधुसपियाँ, तर्पयामि दिवानिशम् ॥ दग्धस्तेनैवोटजो मे, जातं तच्छरणाद्भयम् ॥११॥ यद्वारण्यं गतः कश्चि-द्वहि व्याघ्रभिया निशि ॥ अज्वालयत् प्रमत्तश्च, दग्धस्तेनाऽब्रवीदिति ॥ ५२ ॥ मया हि व्याघ्रमीतेन, पावकः शरणीकृतः॥ दग्धं तेन च गात्रं मे, जातं शरणतो भयम् ॥ ५३॥" इत्युक्त्वाख्यानकं तस्यो--पनयं च प्रकाश्य सः ॥ तस्थौ शिशुस्ततस्तस्य, भूषणान्याददे गुरुः ॥५४॥ | ततोऽप्यऽग्रेऽमक वायु-कायाख्यं वीक्ष्य पूर्ववत् ।। लातुं तस्याप्यलङ्कारान्, मरिरुद्यमवानऽभूत् ॥ ५५॥ सोऽपि शावो निजं नाम, | प्राग्वत्तम प्रकाशयन् ॥ आख्यानं वक्तुमारेमे, वाग्मित्वं नाटयनिजम् ॥५६॥ "एकः कोऽपि युवा भूरि-चलोऽभूत्पीनभूपः ॥ वातरोगगृहीतं तं, प्रेक्ष्य कोऽपीति पृष्टवान् ॥ ५५ ॥ लङ्घनप्लवनोद्योगी, प्राग्भूत्वाप्यधुना भवान् ॥ याति यष्टिमवष्टभ्य, कस्य व्याघेरुपद्रवात् ? ॥ ५८ ॥ सोऽवादीयो मरुज्येष्ठा-ऽऽषाढयोः सौख्यदो भवेत् ।। स एव बाधतेऽङ्ग मे, जातं हि शरणाद्भयम् ॥५९॥" आख्यानमित्युदित्वा त-दावयित्वा च पूर्ववत् ॥ शिशोः स्थितस्य तस्यापि, भूषणान्यग्रहीदुरुः ॥ ६० ।। भूयोपि पुग्तो बालं, प्राग्वदाभरणैर्भूतम् ॥ स वनस्पतिकायाख्यं, पञ्चमं सूरिक्षित ॥ ६१ ॥ तस्यापि भूषणगणं, ग्रहीतुं सोद्यमे गुरौ ।। सोऽपीत्याख्यान माचख्यौ, खाभिख्याख्यानपूर्वकम् ॥ ६२ ॥ “द्रुमे पुष्पफलाकीणे, क्वापि केऽप्यऽवसन् खगाः॥ वृक्षो ह्ययं नः शरण-मिति
1 अलाहारः । ३ शिवम् ।। वक्तृत्वम् । ४ पुष्टशरीरः । ५ उद्धावन । । स्वनामकथनपूर्वम् । . पक्षिणः ।