________________
“संपइ पुणो न दिज्जइ, पकप्पगंथस्स ताण सुत्तत्थो।जइयाविय दिजंतो, तइयाविय एस पडिसेहो।”
व्याख्या-साम्प्रतमधुना पुन व दीयते वितीर्यते प्रकल्पग्रन्थस्य निशीथस्य तासामार्यिकाणां सूत्रार्थः सूत्रेण वर्णपद्धत्या सहितोऽर्थोऽभिधेयः सूत्रार्थ उभयमिति हृदयम् । यदापि च दीयते वितीर्यते स्म तदापि च तस्मिन्नपि काले एष व्याख्यानकरणलक्षणः प्रतिषेधो निवारणमिति गाथार्थः ॥ अमुमेवार्थ दृष्टान्तपूर्वकं दर्शयन्नाह। “हरिभद्दधम्मजणणीए, किंच जाइणिपवत्तिणीएवि । एगोविय गाहत्थो, नो सिट्ठो मुणियतत्ताए ॥" की व्याख्या-सूचनात्सूत्रस्य हरिभद्रसूरिधर्मजनन्यापि धर्मदातृत्वेन प्रतिपन्नमात्रा, किश्चाभ्युच्चये, याकिनीप्रव
तिन्या एतन्नाममहत्तरया न केवलमन्याभिरित्यपि शब्दार्थः, एकोपि च गाथार्थोऽभिधेय आस्तां प्रभूत इत्यपेरों द नो नैव शिष्टः कथितो मुणिततत्त्वया ज्ञातपरमार्थया, तथा च किल "चक्किदुगं हरिपणगं" इत्यादि गाथायाश्चाथै पृष्टा हरिभद्र भट्टेन न च तया कथित इति सुप्रतीतोयमिति गाथार्थः ॥ एवं ज्ञाते जीवोपदेशमाह"बहुमन्नसु मा चरियं, अमुणियतत्ताण ताण ता जीव । जइ ठंति वारियाओ, ता वारसु महुरवक्केण॥" व्याख्या-बहुमन्यख भव्यमिदमिति मंस्थाः, मेति निषेधे चरितं धर्मकथनलक्षणं, अमुणिततत्त्वानामविदितप
RSSCREEMAMAL