________________
भित्त्वाऽन्तः कायं आर्द्रयति या वृष्टिस्तत्र विहर्तुं न कल्पते, अपवादे तु तत्रापि तपखिनः क्षुदसहाश्च भिक्षार्थं पूर्वपूर्वाभावे और्णिकेन औष्ट्रिकेन तार्णेन सौत्रेण वा कल्पेन तथा तालपत्रेण पलाशछत्रेण वा प्रावृता विहरंत्यपि, संतरुत्तरंसि आंतरः सौत्रः कल्पः, सह तेन वर्तते यः सः सांतरः, स चासावुत्तरश्च सांतरोत्तरस्तत्र उत्तर और्णिकस्ताभ्यां प्रावृतस्याल्पवृष्टौ गंतुं कल्पते ॥ ३१ ॥ वासावासं इत्यादितः
प०॥३१॥ (ग्रं.११००) वासावासं प० निग्गंथस्स निग्गंथीए वा गाहा० पिंडवायपडियाए अणुप्पविट्ठस्स निगिज्झिय निगिन्झिय वुट्टिकाए निवइजा,
कप्पइ से अहे आरामंसि वा, अहे उवस्सयंसि वा, अहे वियडगिहंसि वा, उवागच्छित्तए इति यावत् , तत्र पिंडवायपडिआएत्ति पिंडपातो भिक्षालाभस्तत् प्रतिज्ञया अत्राहं | लप्स्ये इति धियाऽनुप्रविष्टस्य गोचरचर्यायां गतस्य साधोः निगिज्झिय २ त्ति स्थित्वा २ घनो वर्षति तदा अहे आरामंसि वा आरामस्याधः अहे उवस्सयंसि वा सांभोगिकानां इतरेषां वा उपाश्रयस्याधस्तदभावे