________________
कल्पसूत्र
सुबोधि०
॥२७७॥
भत्तापत्ति भक्तार्थं पाणएत्ति पानार्थं निःक्रमितुं प्रवेष्टुं कल्पते, न तु द्वितीयवारं, परं - णण्णत्थ इत्यादि-णकारो वाक्यादौ अलंकारार्थः, अन्यत्र आचार्यादिवैयावृत्त्यकरेभ्यस्तान् वर्जयित्वेत्यर्थः, ते तु यदि एकवारं भुक्तेन वैयावृत्त्यं कर्त्तुं न शक्नुवंति तदा द्विरपि भुंजते, तपसो हि वैयावृत्त्यं गरीय इति ।
पति एवं गोयरकालं, गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्त वा । णण्णत्थ आयरियवेयावच्चेण वा, उवज्झायवेयावच्चेण वा, तवस्सिगिलाणवेयावच्चेण वा, खुड्डएण वा खुड्डियाए वा अवंजणजायएण अवंजणजायएण यावत् व्यंजनानि बस्तिकूर्चकक्षादिरोमाणि न जातानि तावत् क्षुल्लकक्षुल्लिकयोरपि द्विभुंजानयो र्न दोषः, यद्वा वैयावृत्त्यमस्यास्तीति वैयावृत्यो वैयावृत्त्यकर इत्यर्थः, आचार्यश्च वैयावृत्यश्च आचार्यवैयावृत्त्यौ, एवं च उपाध्यायादिष्वपि ततश्च आचार्योपाध्यायतपखिग्लानक्षुल्लकानां
"
नवमः
क्षणः
॥९॥
1120011