________________
देवीप्रमुखप्रमदाजेगीयमानधवलमंगलविस्तारः पाणिग्रहणाय, अग्रतो गच्छंश्च वीक्ष्य सारथिं प्रति कस्येदं कृतमंगलभरं धवलमंदिरं इति पृष्टवान् , ततः सोऽङ्गुल्यग्रेण दर्शयन् इति जगाद, उग्रसेननृपस्य है तवश्वशुरस्यायं प्रासादः, इमे च तव भार्याया राजीमत्याः सख्यौ चंद्राननामृगलोचनाभिधाने मिथो ? वार्त्तयतः, तत्र मृगलोचना नेमिं विलोक्य चंद्राननां प्राह, हेचंद्रानने! स्त्रीवर्गे एका राजीमत्येव ।
एका राजीमत्येव । वर्णनीया, यस्या अयमेतादृशो वरः पाणिं ग्रहीष्यति ! चंद्राननाऽपि मृगलोचनामाह
राजीमतीमद्भुतरूपरम्या, निर्माय धाताऽपि यदीदृशेन ।
वरेण नो योजयति प्रतिष्ठां, लभेत विज्ञानविचक्षणः काम् ? ॥ १॥ | इतश्च तूर्यशब्दमाकर्ण्य मातृगृहात् राजीमती सखीमध्ये प्राप्ता, हेसख्यौ ! भवतीभ्यामेकाकिनी-1
भ्यामेव साडंबरंमागच्छन् कोऽपि वरो विलोक्यते, अहमपि विलोकयितुं न लभेयं ? इति बलात्तदंतरे । |स्थित्वा नेमि आलोक्य साश्चर्य चिंतयतिस्मकिं पातालकुमारः, किं वा मकरध्वजः सुरेंद्रः किम् ?किंवा मम पुण्यानां, प्राग्भारो मूर्तिमानेषः!॥१॥