SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० SAXसल ॥१॥ धारिश्रीहेमचन्द्राचार्यवचनात्सुव्यक्तमेव । मण्डयामासायं मुनिमतल्लिका निरस्तसमस्तदोषान्निष्कलङ्कान्महावीरप्र- उपोद्धातः भोर्द्वितीयशताब्द्यां पुण्यं भूमिभागं पुण्यभरेणात्मीयशरीरेण । एतेन महर्षिधुर्येण श्रेयोनिश्रेयससाधने खप्रशस्तजीवने प्राणायिषतोपकृत्यै विश्वजनताया आवश्यक-दशवकालिक-उत्तरीध्ययन-आचाराङ्ग-सूत्रकृताङ्ग-सूर्यप्रप्ति-ऋषिभौषित-दा-कल्प-व्यवहाराणां नियुक्तयो बृहत्केल्प-व्यवहार-दशाश्रुतस्कैन्धाश्चेति सूत्राणि मिलित्वा त्रयोदश ग्रन्थाः। भद्रबाहुसंहितेत्यभिख्याख्यातो ज्योतिःस्वरूपो ज्योतिर्ग्रन्थोप्येतस्यैव महात्मनः कृतिः । वराहमिहर विहितोपद्रवप्रशमायोपसर्गहरस्तोत्रमेतेनैव महर्षिमूर्द्धन्येन व्यरचीत्यपि नाप्रसिद्धम् । अमुष्य भगवतोऽन्यो व्यतिकरस्तु परिशिष्टपर्वतोऽवसेयः सुधीभिः । सन्त्यस्य यद्यपि चूर्णि-टिप्पण-व्यतिरिक्ता अपि बढयो वृत्तयः परं नालं ता निखिलजनबोधाय मोदाय चेत्यतः | सकलजन्मिसुबोधायालं सुबोधिकाभिधया सम्प्रत्युपदीक्रियमाणया सुवृत्त्या सनाथीकृतोयं ग्रन्थ उपक्रियाप्रवणैः पण्डितप्रकाण्डैरुपाध्यायश्रीविनयविजयपूज्यपादैः । वावदति चास्या अन्याभ्यो वृत्तिभ्योतिरिच्यमानतोपादेयता च त एव मुनिपुङ्गवाः| "यद्यपि बह्वयष्टीकाः, कल्पे सन्त्येव निपुणगणगम्याः । तदपि ममायं यत्नः, फलेग्रहिः खल्पमतिबोधात् ॥१॥ यद्यपि भानुद्युतयः, सर्वेषां वस्तुबोधिका बह्वयः। तदपि महीगृहगानां, प्रदीपिकैवोपकुरुते द्राक् ॥२॥” इत्या
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy