________________
"उपोद्घातः"
स्याद्वादिने नमस्तस्मै, भेदिने कर्मभूभृताम् । वेदिने वस्तुजाताना-मात्मानन्दाद्भुतश्रिये ॥१॥
नाहिंसातोऽपरो धर्मः, स्याद्वादान्नापरा प्रमा। नात्मानन्दात्परो नन्दः, श्रीवीरान्नापरः प्रभुः॥२॥ अयि ! समस्तानवद्यविद्यास्तोमपारावारपारीणो विवुधराजशीर्षण्या महान्तो धीमन्तः ! नागोचरचरमेवात्र भवतां धीमतां यात्यब्दं पर्युषणापर्वणि समाकण्यमाणतया कल्पकल्पस्य कल्पसूत्राभिधानस्य सम्प्रत्युपदीक्रियमाणस्यास्य ग्रन्थरत्नस्य कियत्राशस्त्यमुपादेयत्वमावश्यकत्वञ्चेति । प्राणायि चायं ग्रन्थग्रामग्रामणीग्रन्थः पावनतरेण प्राप्ताखिलकलाकलापानवद्यहृद्यपद्यप्रतिपद्यमानामानविद्याधरीकृतविद्याधरेण सततेप्सिततमसाधनानिमेषभूरुहायमाणविद्यावितरणेन अपूर्वपूर्ववित्रवणेन श्रुतकेवलिना श्रीमद्भद्रबाहुखामिना छेदसूत्रान्तःपातिश्रीदशाश्रुतस्कन्धस्याटमाध्ययनत्वेनोद्धृत्य नवमादनवमात्पूर्वादिति। श्रुतकेवलित्वञ्चास्य महाभागस्य "अथ प्रभवः प्रभुः। शय्यम्भवो यशोभद्रः, सम्भूतिविजयस्तथा। भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनोहि पट्।" इति समस्ततन्त्रापरतन्त्रकलिकालसर्वज्ञविरुद
कल्प
.उ.१