________________
क्षण:
॥१॥
कल्पसूत्रII पूर्वोक्तचतुर्गुणादधिकं पंचादिगुणं त्रयोदशगुणाच्च न्यूनं द्वादशगुणपर्यंतं मध्यम क्षेत्रम्। एवं चा||
प्रथमः सुबोधि०
उत्कृष्ट क्षेत्रे, तदप्राप्तौ मध्यमे, तस्यापि अप्राप्तौ जघन्ये क्षेत्रे । सांप्रतं च गुर्वादिष्टे क्षेत्रे साधुभिः
पर्युषणाकल्पः कर्तव्यः ॥ अयं च दशप्रकारोऽपि कल्पो दोषाभावेपि क्रियमाणस्तृतीयौषधवत् हित॥७॥
कारको भवति । तथाहि-केनचिद्भूपतिना स्वपुत्रस्य अनागतचिकित्सार्थं त्रयो वैद्या आकारितास्तत्र प्रथमो वैद्य आह मदीयं औषधं रोगसद्भावे रोगं हंति रोगाभावे च दोषं प्रकटयति । राज्ञोक्तं | सुप्तसर्पोत्थापनतुल्येनानेनौषधेन किम् ? द्वितीयः प्राह मदीयमौषधं विद्यमानं व्याधि हंति रोगाभावे च न गुणं न दोषं च करोति । राजा प्राह भस्मनि हुततुल्येन अनेनापि पर्याप्तं ! तृतीयः प्राह मदीयं ।
औषधं रोगसद्भावे रोग हन्ति तदभावे च शरीरे सौंदर्यवीर्यपुष्टिं करोति । राज्ञोक्तं इदं औषध है समीचीनं । तद्वदयमपि कल्पो दोषसद्भावे दोषं निराकरोति दोषाभावे च धर्म पुष्णाति । तदेवं है।
समुपस्थिते पर्युषणापर्वणि मंगलनिमित्तं पंचभिरेव दिनैः कल्पसूत्रं वाचनीयम् तच्च यथा देवेषु इंद्रः ॥७॥ तारासु चंद्रः, न्यायप्रवीणेषु रामः, सुरूपेषु कामः, रूपवतीषु रंभा, वादित्रेषु भंभा, गजेषु ऐरावणः,