SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथम: कल्पसूत्रसुबोधि० क्षण: ॥१ ॥ SASALSASARAMA विलोक्य प्राज्ञत्वात् विचारयामासुर्यदस्माकं रागहेतुत्वाद्गुरुभिर्नटनिरीक्षणं निषिद्धं तर्हि नटी तु अत्यंतरागकारणत्वात् सर्वथा निषिद्धैवेति विचार्य नटी नालोकितवंतः॥ तर्हि द्वाविंशतिजिनयतीनां ऋजुप्राज्ञानां भवतु धर्मः परं प्रथमजिनयतीनां ऋजुजडानां कुतो धर्मः? अनवबोधात् । तथा च वक्रजडानां वीरयतीनां तु सर्वथा धर्मस्य अभाव एव । मैवं । ऋजुज-है डानां प्रथमजिनयतीनां जडत्वेन स्खलनासद्भावेपि भावस्य विशुद्धत्वाद्भवति धर्मस्तथा वक्रजडानां | अपि वीरजिनयतीनां ऋजुप्राज्ञापेक्षया अविशुद्धो भवति परं सर्वथा धर्मो न भवतीति न वक्तव्यं ! तथा वचने हि महान्दोषः । तदुक्तं-"जो भणइ नत्थि धम्मो, न य सामाइयं न चेवय वयाइं । सो समणसंघबज्झो, कायवो समण संघेण ॥१॥” । है तथा यो नियतमवस्थानलक्षणः सप्ततिदिनमानः पर्युषणाकल्प उक्तः सोपि कारणाभावे एव । कारणे तु तन्मध्येऽपि विहां कल्पते । तद्यथा-"अशिवे १ भोजनाप्राप्तौ २, राज ३ रोग ४ पराभवे । चतुर्मासकमध्येपि, विहाँ कल्पतेऽन्यतः । १। असति स्थंडिले ५ जीवाकुले ६ च वसतौ ७ तथा।
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy