SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ सविहं गिहिधम्मं पडिवज्जाहि ॥ ५८ ॥ 'नो खलु' इत्यादि, नो खलु मम भदन्त भगवन्कल्पते युज्यते । अद्यप्रभृति - इतः सम्यक्त्वप्रतिपत्तिदिनादारभ्य निरतिचारसम्यपरिपालनार्थं तद्यतनामाश्रित्य । ' अन्नउत्थिए व त्ति जैनयूथाद्यदन्यद्यर्थं सङ्घान्तरं तीर्थान्तरमित्यर्थः, तदस्ति येषां तेऽन्ययूथि - काश्चरकादिकुतीर्थिकास्तान् । ' अन्ययूधिकदैवतानि वा हरिहरादीनि । ' अन्ययूधिकपरिगृहीतानि वा अर्हचैत्यानि ' अत्मतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि । ' वन्दितुं वा अभिवादनं कर्तुम, 'नमस्यितुं वा प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं कर्तुम, तद्भक्तानां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः ॥ नथा पूर्व - प्रथममनालप्लेन सता अन्यतीर्थिकैः तानेव, ' आलपितुं वा सकृत्सम्भाषितुम् ' संलपितुं वा पुनः पुनः संलापं कर्तुम, यतस्ते तप्ततरायोगोलककल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मबन्धः स्यात् । तथालापादेः सकाशात्परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्वप्राप्तिरिति । प्रथमालप्तेन त्वसंभ्रमं लोकापवादभयात् कीदृशस्त्वम्" इत्यादि वाच्यमिति । तथा तेभ्योऽन्ययृथिकेभ्यो ' अशनादि दातुं वा सकृत् ' अनुप्रदातुं ' वा पुनः पुनरित्यर्थः ॥ अयं च निषेधां धर्मबुध्यैव, करुणया तु दद्यादपि । किं सर्वथा न कल्पत इत्याह । ' नन्नत्थ रायाभिओगेणं ति ' न इति-न कल्पत इति योऽयं निषेधः सोऽन्यत्र राजाभियोगात्, तृतीयायाः पञ्चम्यर्थत्वाद्राजाभियोगं वर्जयित्वेत्यर्थः । राजाभियोगस्तु राजपरतन्त्रता । ' गणः समुदायस्तदभियोगो वश्यता गणाभियोगस्तस्मात् बलाभियोगो नाम राजगणव्यतिरिक्तस्य वलवतः पारतन्त्र्यम्, देवताभियोगो' देवपरतन्त्रता, गुरुनिग्रहो - मातापितृपारवइयं गुरूणां वा चैत्यसाधूनां निग्रहः - प्रत्यनीककृतोपद्रवो गुरुनिग्रहः, तत्रोपस्थिते तद्रक्षार्थमन्ययूथिका दिभ्यो दददपि नातिक्रामति सम्यक्त्व "
SR No.600341
Book TitleUpasakdasha Shrutam
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherAtmanand Jain Sabha
Publication Year1921
Total Pages118
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy