________________
उत्तराध्ययन ॥ ७२ ॥
१५
१८
२१
२४
मूलम् — अहं च भोगरायस्स, तं चऽसि अंधगवह्निणो । मा कुले गंधणा होमो, संजमं निहुओ चर ४३ - अहं चः पूत भोजराजस्योग्रसेनस्य, त्वं चासि अन्धकवृष्णेः कुले जात इति शेषः । अतो मा कुले 'गंधणत्ति' गन्धनानां 'होमोत्ति' भविष्यावस्त चेष्टितकारितयेति भावः । गन्धना हि वान्तमपि विषं मंत्राकृष्टा ज्वलदनलपातभीरुत्वेन पुनरापिबन्ति, न त्वगन्धनाः । तर्हि किं कार्यमित्याह-संयमं निभृतः स्थिरम्बर सेवख ॥ ४३ ॥ मूलम् — जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ । वायाविद्ध्रुव हडो, अट्ठिअप्पा भविस्ससि ४४
व्याख्या -- यदि त्वं करिष्यसि भावं प्रक्रमाद्भोगेच्छारूपं, या या द्रक्ष्यसि नार्यस्तासु ताखिति गम्यते । ततः किमित्याह - वाताविद्धो वायुप्रेरितो हठो वनस्पतिविशेषः स इव अस्थितात्मा अस्थिराशयो भविष्यसि । हठो बढमूलतया यतो यतो वातो चाति ततस्ततो नमतीत्यस्थिरो भवति, तथा चञ्चलचित्ततया स्त्रियं स्त्रियं प्रति स्पृहां कुस्त्वमपीति ॥ ४४ ॥
मूलम् - गोवालो भंडवालो वा, जहा तद्दवणिस्सरो । एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि४५ व्याख्या -- गोपालो यः परस्य गाः पालयति, भण्डपालो वा यः परस्य भाण्डानि भाटकादिना पालयति स यथा तद्द्रव्यस्य गवादेरनीश्वरोऽप्रभुः एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि ! भोगाभिलाषितया तत्फलस्याभीवादिति सूत्रषोडशकार्थः ॥ ४५ ॥ एवं तयोक्ते रथनेमिः किं चकारेत्याह
द्वाविंशमध्ययनम्(२२) गा ४३-४५
UTR-3