________________
उत्तराध्ययन
11 88 11
१५
१८
२१
२४
स्थ्ये भूपस्य धीसखान् ॥ ऊच गाणिक्यमाणिक्य-मिति कामलता रहः ॥ १६९ ॥ वैदेशिकः पुमान्कोऽपि, समित्रो - त्रास्ति सद्गुणः ॥ सम्पद्यमान सर्वार्थः, सदोपायं विनापि हि ! ॥ १७० ॥ तत्पार्श्वे भेषजं किञ्चिद्भावि श्रुत्वेति द्विरम् ॥ उपभूपं कुमारं तं मंत्रिणो निन्युरादरात् ॥ १७१ ॥ कृपालुः सोऽपि सख्युस्ते, गृहीत्वा मणि - मूलिके ॥ मणिनीरेण घृष्ट्वा तत्प्रहारे मूलिकां न्यधात् ॥ १७२ ॥ ततः सज्जतनू राजा, राजाङ्गजमिदं जगौ ॥ कुतोऽकारण बन्धुस्त्व-मत्रागाः ? सुकृतैर्मम ! ॥ १७३ ॥ तन्मित्रेणाथ तद्वृत्ते, प्रोक्ते भूयोऽभ्यधान्नृपः ॥ मन्मित्रस्य सुतोऽसि त्वं, दिष्ट्या खगृहमागमः ॥ १७४ ॥ इत्युक्त्वा स्वसुतां रम्भा भिधां तस्मै ददौ नृपः ॥ तत्र स्थित्वा चिरं प्राग्व-त्समित्रो निर्जगाम सः ॥ १७५ ॥ सोऽथ कुण्डपुरोद्याने, गतः स्वर्णाम्बुजस्थितम् ॥ वीक्ष्य केवलिनं भक्त्या, नवा शुश्राव देशनाम् ॥ १७६ ॥ भगवन्नस्मि भव्योह-मभव्यो वेति शंस मे ॥ अथापराजितेनेति, पृष्टः प्रोवाच केवली ॥ १७७ ॥ भव्योऽसि जंबूद्वीपस्य, भरते पंचमे भवे ॥ भावी द्वात्रिंशो जिनस्त्वं, सखाऽसौ तु गणी तव ॥ १७८ ॥ तदाकर्ण्य सहर्षो तौ, भेजतुस्तं मुनिं चिरम् ॥ मुनौ तु विहृते ग्रामादिषु चैत्यानि नेमतुः ॥ १७९ ॥
इतश्च श्रीजनानन्दे, जनानंदकरे पुरे ॥ जितशत्रुरभूद्भूपः, तस्य राज्ञी तु धारिणी ॥ १८० ॥ दिवो रलवतीजीवश्रयुत्वा तत्कुक्षिमाय ॥ काले चासूत सा प्रीति-मतीसंज्ञां सुतां शुभाम् ॥ १८९ ॥ क्रमेण वर्द्धमाना सा, स्वीकृत्य सकलाः कलाः ॥ आससाद जगज्जैत्रं, वैदग्ध्यमिव यौवनम् ॥ १८२ ॥ तस्याः पुरोऽतिविज्ञाया, जज्ञे
द्वाविंशम - ध्ययनम्
(२२) नेमिनाथ
चरितम् १६९-१८२
UTR-3