SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३९ ॥ ३ ६ १२ स्वसदनं ययौ ॥ ९८ ॥ अनङ्गोऽथ सुतां दातुं प्रैषीन्मंत्रिणमात्मनः ॥ सोऽपि गत्वा प्रणम्यैव - मत्रवीत्सूरचक्रिणम् ॥ ९९ ॥ अयं चित्रगती रत्न-वती चेयं गुणाधिकौ ॥ स्वर्णरत्ने इव स्वामिन् !, मिथो योगाद्विराजताम् ॥ १०० ॥ प्रपद्य तन्मुदा सूर-तां सुतेनोदवाहयत् ॥ सोऽपि भेजे यथाकालं, धर्मसौख्ये तया समम् ॥ १०१ ॥ राज्यं चित्रगर्दत्वाऽन्यदा सूरमहीपतिः ॥ आदाय सद्गुरोर्दीक्षां क्रमात्प्राप परं पदम् ॥ १०२ ॥ ततश्चित्रगतिश्चित्र- कारिविद्याबलोर्जितः ॥ चिरं खेचरचत्रित्व - मन्वभूचण्डशासनः ॥ १०३ ॥ खसामन्तसुतौ राज्य-कृते युवा मृतिं गतौ ॥ वीक्ष्याऽन्यदा चित्रगतिः, प्राप वैराग्यमुत्तमम् ॥ १०४ ॥ ततो निधाय तनयं राज्ये चित्रगतिर्नृपः ॥ पर्यब्राजीद्दमचरा - चार्यपार्श्वे प्रियायुतः ॥ १०५ ॥ चिरं विहृत्य प्रान्ते चाऽनशनेन विपद्य सः ॥ रत्नवत्या समं तुर्यकल्पे देवत्वमासदत् ॥ १०६ ॥ अथापरविदेहेषु, विजये पद्मसंज्ञके ॥ पुरे सिंहपुरे नाम्ना, हरिणन्दी नृपोऽभवत् ॥ १०७ ॥ तस्य सान्वर्थनामासीद्राज्ञी तु प्रियदर्शना ॥ च्युत्वा चित्रगतेर्जीव - स्तत्कुक्षाववतीर्णवान् ॥ १०८ ॥ काले चासूत सा पुत्रं, रत्नमाकरभूरिव ॥ तस्याऽपराजित इति, नामधेयं व्यधान्नृपः ॥ १०९ ॥ क्रमेण कलयन् वृद्धि-मादाय सकलाः कलाः ॥ स प्राप पुण्यं तारुण्यं, पूर्णत्वमिव चन्द्रमाः ॥ ११० ॥ सपांशुक्रीडितस्तस्य, वयस्यः सचिवाङ्गजः । जज्ञे विमलबोधाख्यो, द्वितीयमिव तन्मनः ॥ १११ ॥ कुमारावन्यदा वाजि - हृतौ तौ प्रापतुर्वनम् ॥ तदाऽपराजितो मित्रं, मंत्रिपुत्रमदोऽवदत् द्वाविंशम ध्ययनम् श्रीनेमिना UTR-3 थचरित्रम् ९९-११२
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy