SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४०२॥ पत्रिंशमध्ययनम्. | हि हिमवतः पूर्वापरप्रान्तयोश्चतसृषु विदिक्प्रसृतकोटिषु त्रीणि त्रीणि योजनशतान्यवगास तावन्त्येव योजनशतान्यायामविस्ताराभ्यां प्रथमे चत्वारोऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्ध्यावगाहनया योजनशतचतुष्काद्यायामविस्तारा द्वितीयादयः षट् । एषां चैशान्यादिक्रमात् प्रादक्षिण्येन प्रथमचतुष्कस्य एकोरुक १ आभाषिको २ वैषाणिको३ लाङ्गुलिकः ४ इति नामानि । द्वितीयस्य हयकर्ण १ गजकर्ण २ गोकर्ण ३ शष्कुलीकर्णाः ४। तृतीयस्य आदर्शमुख १ मेपमुख २ हयमुख ३ गजमुखाः ४ । चतुर्थस्याश्वमुख १ हस्तिमुख २ सिंहमुख ३ व्याघ्रमुखाः ।। पञ्चमस्याश्वकर्ण १ सिंहकर्ण २ गजकर्ण ३ कर्णप्रावरणाः ४ । षष्ठस्य उल्कामुख १ विद्युन्मुख २ जिह्वामुख ३ मेघमुखाः ४ । सप्तमस्य घनदन्त १ गूढदन्त २ श्रेष्ठदन्त ३ शुद्धदन्ताः ४ इति नामानि । एषु च द्वीपनामसदृशनामान एव युगलिनो वसन्ति । तदेहमानादि चाभ्यां गाथाभ्यां ज्ञेयम् "अंतरदीवेसु नरा, धणूअसयइसिआ सया मुइआ। पालंति मिहुणधम्म, पलिअस्स असंखभागाऊ ॥१॥ चउसठ्ठी पिट्ठकरंडयाणं, मणुआण तेसिमाहारो । भत्तस्स चउत्थस्स उ, गुणसीति दिणाण पालणया ॥२॥" ___एते च शिखरिणोऽपि पूर्वापरप्रान्तविदिप्रसृतकोटिपूक्तन्यायतोऽष्टाविंशतिः सन्ति, सर्वसाम्याचैषां भेदेनाविव क्षितत्वान्न सूत्रेऽष्टाविंशतिसंख्याविरोध इति ध्येयम् ॥ १९५ ॥ * मूलम्-समुच्छिमाण एसेव, भेओ होइ आहिओ। लोगस्स एगदेसंमि, ते सव्वेवि विआहिआ।१९६॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy