________________
उत्तराध्ययन ॥३८३॥
पत्रिंशमध्ययनम्. गा ७८-८१
३
व्याख्या-'एगविहंति' सूत्रत्वादेकविधाः, किमित्येवंविधाः १ यतोऽनानात्वा अभेदाः सूक्ष्माः तत्र पृथ्वीजीवेषु व्याख्याताः ॥ ७७ ॥ पृथ्वीकायानेव क्षेत्रत आहमूलम्-सुहुमा य सबलोगंमि, लोगदेसे अबायरा। एत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥७॥
न्याख्या-सूक्ष्माः सर्वलोके, लोकदेशे च रत्नप्रभापृथिव्यादी बादराः । शेषं स्पष्टम् ॥ ७८ ॥ मूलम्-संतई पप्पऽणाईआ, अपज्जवसिआवि अ। टिइं पडुच्च साईआ, सपज्जवसिआ वि अ ॥७९॥
व्याख्या-सन्ततिं प्रवाहं प्राप्य आश्रित्य अनादिका अपर्यवसिता अपि च पृथ्वीकायिकानां प्रवाहतः कदाप्य| सम्भवाभावात् , स्थिति भवस्थितिकायस्थितिरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ ७९ ॥ मूलम्-बावीस सहस्साइं, वासाणुकोसिआ भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जहन्नगं ॥ ८॥ ___असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नगा । कायठिई पुढवीणं, तं कार्य तु अमुचओ ॥८१॥ व्याख्या-असंख्यकालमसंख्ययलोकाकाशप्रदेशप्रमाणोत्सर्पिण्यवसर्पिणीरूपं 'उक्कोसंति' उत्कृष्टा, अन्तर्मुहूर्त जघन्यका कायस्थितिः पृथिवीनां पृथिवीकायजीवानां, तं पृथ्वीरूपं कायं 'अमुंचओत्ति' अमुञ्चतां मृत्वा मृत्वा तत्रैवोत्पद्यमानानाम् ॥ ८॥ ८१ ॥ कालान्तर्गतमेवान्तरमाह
UTR-3