________________
उत्तराध्ययन ॥३५॥
चतुस्विंशमध्ययनम्. (३४) गा५१-५३
व्याख्या-इहापि पूर्वस्मात्पल्योपमासंख्यभागाद् बृहत्तमो भागो ज्ञेयः, शेषं प्राग्वत् ॥ ५० ॥ एवं निकायद्वयभाविनीमाद्यलेश्यात्रयस्थिति दर्शयित्वा समस्तनिकायभाविनी तेजोलेश्यास्थितिमभिधातुमाहमूलम्-तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवइवाणमंतर-जोइसवेमाणिआणं च५१
व्याख्या-'तेणत्ति' ततः परं प्रवक्ष्यामि तेजोलेश्यां यथेति येन प्रकारेण सुरगणानां स्यात्तथेति शेषः, केषामित्याह-भवनपतिवानमन्तरज्योतिष्कवैमानिकानां, चः पृत्तौ ॥५१॥ प्रतिज्ञातमाहमूलम्-पलिओवमं जहन्ना, उक्कोसा सागरा उदुषणहिआ।पलिअमसंखिज्जेणं, होइ तिभागेण तेऊए ___व्याख्या-पल्योपमं जघन्या, उत्कृष्टा द्वे सागरोपमे अधिके, केनेत्याह-पल्योपमासंख्ययेन भागेन भवति तैजस्याः स्थितिः, इयं चास्याः स्थितिवैमानिकानेवाश्रित्यावसेया, तत्र जघन्या सौधर्मे उत्कृष्टा चेशाने । उपलक्षणं चैतत् शेषनिकायतेजोलेश्यास्थितः, तत्र भवनपतिव्यन्तराणां दशवर्षसहस्राणि जघन्या, उत्कृष्टा तु व्यन्तराणां पल्यं, भवनपतीनां साधिकं सागरं, ज्योतिषां जघन्या पल्याष्टभागः, उत्कृष्टा वर्षलक्षाधिकं पल्यमिति ॥५२॥ मूलम्-दसवाससहस्साइं, तेऊइ ठिई जहन्निआ होइ। दुण्णुदही पलिओवम-असंखभागं च उक्कोसा व्याख्या-अत्र सूत्रे देवसम्बन्धितैजस्याः स्थितिः सामान्येनोक्ता, इह च दशवर्षसहस्राणि जघन्याऽस्याः स्थिति
UTR-3