SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३३५॥ ॥ अथ चतुस्त्रिंशमध्ययनम् ॥ चतुचिंशमध्ययनम्, गा १-२ ॥ॐ॥ उक्तं त्रयस्त्रिंशमध्ययनमथ चतुर्विंशं लेश्याध्ययनमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने कर्मप्रकृतय उक्तास्तत्स्थितिश्च लेश्यावशात् स्यादितीह ता उच्यन्ते, इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-लेसज्झयणं पवक्खामि, आणुपुवि जहक्कम । छण्हपि कम्मळेसाणं, अणुभावे सुणेह मे ॥१॥ ____ व्याख्या-लेश्यावाचकमध्ययनं लेश्याध्ययनं प्रवक्ष्यामि, आनुपूर्वेत्यादि प्राग्वत् । तत्र षण्णामपि कर्मलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणामनुभावान् रसविशेषान् शृणुत मे कथयत इति शेषः ॥१॥ एतदनुभावाश्च नामादिप्ररूपणे कथिता एव भवन्तीति तत्प्ररूपणाय द्वारसूत्रमाहमूलम्-णामाइंवण्णरसगंधफासपरिणामलक्खणं ठाणं। ठिइंगइंच आउं, लेसाणंतु सुणेह मे ॥२॥ व्याख्या-नामानि वर्ण-रस-गन्ध-स्पर्श-परिणाम-लक्षणमिति पण्णां समाहारः, परिणामश्चात्र जघन्यादिः, लक्षणं पञ्चाश्रवसेवादि, स्थानमुत्कर्षापकर्षरूपं, स्थितिमवस्थानकालं, गतिं च नरकादिकां यतो याऽवाप्यते, आयु र्जीवितं यावति तत्रावशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां तु शृणुत मे वदत इति सूत्रार्थः ॥ २॥ यथोद्देशं निर्देश इत्यादौ नामान्याह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy