________________
उत्तराध्ययन
त्रयस्त्रिंशमध्ययनम्,
गा १७-१८
* मूलम्-सवेसिं चेव कम्माणं, पएसग्गमणंतगं । गंठिअसत्ताईअं, अंतो सिद्धाण आहिअं॥१७॥ ___ व्याख्या-सर्वेषां चः पृत्तौ एवोऽपिशब्दार्थः, ततः सर्वेषामपि कर्मणां प्रदेशाग्रं परमाणुपरिमाणं अनन्तमेवानन्तकं । तच्चानन्तकं प्रन्थिकसत्त्वा ये ग्रन्थिदेशं गत्वापि तं भित्त्वा न कदाचिदुपरि गन्तारस्ते चाभव्या एवात्र गृखन्ते, तानतीतं तेभ्योऽनन्तगुणत्वेनातिकान्तं ग्रन्थिकसत्त्वातीतं । तथा अन्तर्मध्ये सिद्धानामाख्यातं, सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभागे एव स्युः । एकस्य जीवस्य एकसमयग्राह्यकर्मपरमाण्वपेक्षं चैतत् , अन्यथा हि सर्वजीवेभ्योप्यनन्तानन्तगुणत्वात्सर्वकर्मपरमाणूनां कथमिदमुपपद्यतेति ॥ १७ ॥ क्षेत्रमाह| मूलम्-सवजीवाण कम्मं तु, संगहे छदिसागयं । सत्वेसुवि पएसेसु, सवं सवेण बज्झगं ॥ १८॥
व्याख्या-सर्वजीवानां कर्म ज्ञानावरणादि, तुः पूत्तौ, संग्रहे संग्रहक्रियायां योग्यं स्यादिति शेषः, यद्वा सर्वजीवाः 'ण' इति वाक्यालङ्कारे, कर्म 'संगहेत्ति' संगृहन्ति । कीदृशं सदित्याह-'छहिसागयंति' षण्णां दिशां समाहारः षदिशं तत्र गतं स्थितं षड्दिशगतं, एतच्च द्वीन्द्रियादीनाश्रित्य नियमेन व्याख्येयं, एकेन्द्रियाणामन्यथापि सम्भवात् । यदागमः-“एगेंदिए णं भंते ! तेआकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जाव छहिसिं करेइ ? गोयमा ! सिअ तिदिसिं सिअ चउदिसिं सिअ पंचदिसि सि छहिसिं करेइ । बेइंदिअ-तेइंदिअ-चउरिदिअ
UTR-3