SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३२९॥ त्रयस्त्रिंशमध्ययनम्, गा१५-१६ 10 D | मूलम्-दाणे लाभे अ भोगे अ, उवभोगे वीरिए तहा। पंचविहमंतरायं, समासेण विआहि ॥१५॥ व्याख्या-दाने देयवस्तुवितरणरूपे, लाभे च प्रार्थितवस्तुप्राप्तिरूपे, भोगे च सकृदुपभोग्यपुष्पादिविषये, उपभोगे पुनः पुनरुपभोग्यगृहस्यादिविषये, वीर्ये पराक्रमे तथा । अन्तरायमिति प्रक्रमः, ततश्च विषयभेदात् । पञ्चविधमन्तरायं समासेन व्याख्यातं । तत्र दानान्तरायं समासेन येन सति पात्रे देये च वस्तुनि जानन्तोपि दानफलं तन्त्र प्रवृत्तिन स्यात् १ । लाभान्तरायं तु येन भव्येपि दातरि याबादक्षेपि याचके लाभो न स्यात् २। भोगान्तरायं तु येन सम्पद्यमानेप्याहारमाल्यादौ भोक्तुं न शक्नोति ३। उपभोगान्तरायं तु येन सदपि वस्त्राङ्गनादि नोपभोक्तुं प्रभवति ४ । वीर्यान्तरायं तु यतो नीरोगो वयःस्थोपि तृणकुनीकरणेपि न क्षमते ५। इति सूत्रचतुर्दश कार्थः ॥ १५ ॥ एवं प्रकृतयोऽभिहिताः, सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धाय चाहR मूलम्-एआओ मूलप्पयडीओ, उत्तराओ अ आहिआ। पएसग्गं खेत्तकाले अ, भावं चादुत्तरं सुण१६ __ व्याख्या-एता मूलप्रकृतय उत्तराश्चेति उत्तरप्रकृतयश्च आख्याताः । प्रदेशाः परमाणवस्तेषामग्रं परिमाणं प्रदेशाग्रं, 'खेत्तकाले अत्ति क्षेत्रकालौ च, भावं चानुभागलक्षणं कर्मणः पर्यायं चतुःस्थानिकादिरसमित्यर्थः, अत उत्तरमिति अतः प्रकृत्यभिधानादूर्द्ध शृणु कथयतो ममेति शेषः ॥ १६ ॥ तत्रादौ प्रदेशाग्रमाह प्रभवति ४ । वीणयाहारमाल्यादो भान भव्येपि दातरि या प्रति पात्रे देये चकमा ततश्च विषयभाये, UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy