________________
उत्तराध्ययन ॥३१५॥
द्वात्रिंशमध्ययनम्. गा १०१
AM
इन्द्रियमनांसि च दुःखस्य हेतवो भवन्तीति गम्यते, मनुजस्य रागिणः उपलक्षणत्वात् द्वेषिणश्च । ते चैवेन्द्रियमनोर्थाः स्तोकमपि कदाचित् दुःखं न वीतरागस्य वीतरागद्वेषस्य कुर्वन्ति किञ्चिन्मानसं शारीरं वेति सूत्रार्थः ॥१०॥ ननु न कश्चित् कामभोगेषु सत्सु वीतरागः सम्भवति तत्कथमस्य दुःखाभावः १ उच्यते
मूलम्-न कामभोगा समयं उविंति, न यावि भोगा विगई उविति ।
जे तप्पओसी अ परिग्गही अं, सो तेसु मोहा विगई उवेइ ॥१०१॥ व्याख्या-न कामभोगाः समतां रागद्वेषाभावरूपां प्रति हेतुत्वमिति शेषः उपयान्ति गच्छन्ति, तेषां समताहेतुत्वे हि न कोपि रागद्वेषवान् स्यात् । न चापि भोगाः कामभोगा विकृति क्रोधादिरूपां प्रति हेतुत्वमुपयान्ति, तेषामेव हि केवलानां विकृतिहेतुत्वे न कोपि रागद्वेषहीनः स्यात् । कोऽनयोस्तर्हि हेतुरित्याह-यस्तत्प्रद्वेषी च तेषु विषयेषु प्रद्वेषवान् परिग्रही च परिग्रहबुद्धिमांस्तेष्वेव रागीत्यर्थः, स तेषु मोहाद्रागद्वेषरूपमोहनीयाद्विकृतिमुपैति ।
रागद्वेषरहितस्तु समतामिति भावः ॥ १०१ ॥ किं रूपां विकृतिमुपैतीत्याह* मूलम्-कोहं च माणं च तहेव मायं, लोभं दुगुंछं अरइं रइं च । हासं भयं सोग पुमित्थिवेअं
UTR-3