________________
उत्तराध्ययन ॥३०१॥
द्वात्रिंशमध्ययनम्. गा३३-३४
जन्तुः क्लिश्यते तदा सुखं स्यादिति, यदि च तदापि दुःखमेव तदा कुतोऽन्यदा सुखं स्यादिति भावः ॥ ३२॥ एवं रागस्यानर्थहेतुतामुक्त्वा द्वेषस्यापि तामतिदेष्टुमाह
मूलम्-एमेव रूवम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ।
पदुदृचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥ ३३ ॥ व्याख्या-एवमेव यथानुरक्तस्तथैव रूपे प्रक्रमाहुष्टे गतः प्रद्वेष उपैति दुःखौघपरम्परा उत्तरोत्तरदुःखसमूहरूपाः। तथा प्रविष्टचित्तः चस्य भिन्नक्रमत्वात् चिनोति च कर्म, यत् 'से' तस्य पुनर्मवेत् दुःखं दुःखहेतुर्विपाकेऽनुभवकाले अत्रामुत्र चेति भावः । पुनर्दुःखग्रहणमैहिकदुःखापेक्षमशुभकर्मोपचयश्च हिंसाद्याश्रवान् विना न स्यादित्यनेन द्वेषस्याप्याश्रयहेतुत्वमामिप्यते ॥ ३३ ॥ एवं रागद्वेषानुद्धरणे दोषमुक्त्वा तदुद्धरणे गुणमाह
मूलम्-रूवे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।
न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ३४ ॥१॥ व्याख्या-रूपे विरक्त उपलक्षणत्वादद्विष्टश्च मनुजो विशोकः शोकमुक्तस्तनिबन्धनयो रागद्वेषयोरभावादेतेनानन्तरोक्तेन 'दुक्खोहपरंपरेणत्ति' दुःखानामोघाः सङ्घातास्तेषां परम्परा तया न लिप्यते न स्पृश्यते भवमध्येपि संस्ति
UTR-3