________________
उत्तराध्ययन
॥ अथ विंशतितममध्ययनम् ॥
विंशतितममध्ययनम्गा १-२
॥ अहम् ॥ उक्तमकोनविंशमध्ययनमथ महानिर्ग्रन्थीयाख्यं विंशतितमं प्रस्तूयते, अस्स चायमभिसम्बन्धोऽनन्तराध्ययने निःप्रतिकर्मतोक्का, सा चानाथत्वभावनेनैव पालयितुं शक्येत्यनाथत्वमेवानेनाऽनेकविधमुच्यते । इत्यनेनसम्बन्धेनायातस्यास्पेदमादिसूत्रम्मूलम्-सिद्धाण नमोकिन्चा, संजयाणं च भावओ। अत्थधम्मगई तच्चं, अणुसिद्धिं सुणेह मे ॥१॥
व्याख्या-सिद्धेभ्यस्तीर्थकरादिसिद्धेभ्यो नमस्कृत्य, संयतेभ्यश्चाचार्योपाध्यायसाधुभ्यो भावतो भन्या । अर्योहितार्थिभिः प्रार्थ्यः स चासौ धर्मथार्थ्यधर्मस्तस्य गतिर्ज्ञानं यस्याः सा अर्थ्यधर्मगतिस्तां, 'तचंति' तथ्यामविपरीतार्था, अनुशिष्टिं शिक्षा शृणुत, मे मया कथ्यमानामिति शेषः । स्थविरवचनमेतदिति सूत्रार्थः ॥१॥ अथ धर्मकथानुयोगत्वादस्य धर्मकथाकथनद्वारा शिक्षामाहमूलम्-पभुअरयणो राया, सेणिओ मगहाहिवो। विहारजत्तं निजाओ, मंडिकुच्छिसि चेइए ॥२॥ व्याख्या--प्रभूतानि रनानि वैडूर्यादीनि सारगजाचादिरूपाणि वा यस्य स तथा, 'विहारजतंति' विहारयात्रया
UTR-3