________________
उत्तराध्ययन ॥ २८२॥
एकत्रिंशमध्ययनम्.
गा २१
एव प्रतिवचो दत्ते ॥ २१॥ किं भणसीति गुरुं वक्ति ॥ २२ ॥ त्वमिति वक्ति ॥ २३॥ यादृशं गुरुर्वक्ति तादृशमेव प्रतिवक्ति, यथार्य ! किं ग्लानादेवैयावृत्त्यादि न करोषीत्यादि गुरुणोक्तस्त्वमेव किं न करोषीत्यादि प्रतिवक्ति ॥ २४ ॥ गुरौ कथां कथयति नो सुमनाः स्यात् ॥ २५ ॥ त्वमेतमर्थ न स्मरसीति वक्ति ॥ २६ ॥ गुरौ कथां कथयति स्वयं कथां वक्तुमारभते ॥ २७ ॥ भिक्षाकालो जात इत्यादिवाक्येनाकालेऽपि पर्षदं भिनत्ति ॥ २८ ॥ अनुत्थितायामेव पर्षदि गुरूक्तमेवार्थ खकौशलज्ञापनार्थ सविशेष वक्ति ॥ २९ ॥ गुरोः संस्तारकं पद्भयां घट्टयति ॥३०॥ गुरोः संस्तारके निषीदति शेते वा ॥ ३१ ॥ उच्चासने निषीदति ॥ ३२ ॥ समासने वा ॥ ३३ ॥ यो भिक्षुर्यतते श्रद्धानसेवनवर्जनादिना स न तिष्ठति मण्डले संसारे । इत्येकोनविंशतिसूत्रार्थः ॥२०॥ अध्ययनार्थ निगमयितुमाहमूलम्-इइ एएसु ठाणेसु, जो भिक्खू जयई सयासे खिप्पं सवसंसारा, विप्पमुच्चइ पंडिएत्ति बेमि ॥
व्याख्या-इत्यनेन प्रकारेण एतेष्वनन्तरोक्तेषु स्थानेषु शेषं स्पष्टमिति सूत्रार्थः ॥२१॥ इति ब्रवीमीति प्राग्वत् ॥
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-12
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकत्रिंशमध्ययनं सम्पूर्णम् ॥ ३१॥ SECडन्डन्ह
ळहळ्यालयाला
UTR-3