________________
एकत्रिंश
मध्ययनम्. गा ६-९
उत्तराध्ययन * मूलम्-विगहाकसायसण्णाणं, झाणाणं च दुअंतहा । जे भिक्खू वजई निच्चं, से न अच्छइ मंडले ६, ॥२६५॥ __ व्याख्या-विकथाकषायसंज्ञानां प्रतीतानां प्रत्येक चतुष्कं, 'झाणाणं चत्ति' ध्यानयोश्च द्विकं आतरौद्ररूपं तथा
यो भिक्षर्वर्जयति । ध्यानस्य चेह प्रस्तावेऽभिधानं चतुर्विधत्वात् ॥ ६ ॥ मूलम्-वएसु इंदियत्थेसु, समिईसु किरियासु आजे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥७॥
व्याख्या-व्रतेषु प्राणातिपातविरमणादिषु, इंद्रियार्थेषु शब्दादिविषयेषु, समितिषु ईर्यादिषु, क्रियासु च कायिक्याधिकरणिकी-प्राद्वेषिकी-पारितापनिकी-प्राणातिपातिकीरूपासु यो भिक्षुर्यतते । व्रतसमितिषु सम्यक्पालनेन, माध्यस्थ्यविधानेन चेन्द्रियार्थेषु, परिहाराच क्रियासु यत्नं कुरुते ॥७॥
मूलम्-लेसासु छसु काएसु, छक्के आहारकारणे ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ ८ ॥ * व्याख्या-लेश्यासु कृष्णादिषु षट्सु, षदसु कायेषु पृथिव्यादिषु, षट्के षट्परिमाणे आहारकारणे पूर्वोक्ते यो
भिक्षुर्यतते, यथायोगं निरोधोत्पादनरक्षानुरोधविधानेन यत्नं कुरुते ॥ ८॥ १२, मूलम्-पिंडुग्गहपडिमासु, भयठाणेसु सत्तसु । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥९॥
UTR-3