SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२४॥ एकोनत्रिंश मध्ययनम्. द्रव्यसानिध्यनिर्मितं जीवव्यापारं निरुणद्धि, तं च निरुध्य 'आणापाणनिरोहंति' आनापानौ उच्छासनिःश्वासौ तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत् , योगत्रयनिरोधं चैवं प्रत्येकमसंख्येयसमयैः कृत्वा ईषदिति खल्पप्रयत्नेन पञ्चानां हखाक्षराणां अ-इ-उ-ऋ-ल-इत्येवंरूपाणां उच्चारो भणनं तस्याद्धा कालो यावता ते उच्चायन्ते सा ईषत्पञ्चहखाक्षरोचारणाद्धा तस्यां च णं प्राग्वत् । अनगारः समुच्छिन्नक्रियं अनिवृत्ति शुक्लध्यानतुर्यभेदं ध्यायन् शैलेश्यवस्थामनुभवन्निति भावः।हखाक्षरोचारणं च न विलम्बितं द्रुतं वा किन्तु मध्यमप्रतिपत्त्यैवात्र गृह्यते । तादृशश्च सन् किं करोतीत्याह-वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति ॥ ततो वेदनीयादिक्षपणानन्तरं 'ओरालिअकम्माई चत्ति' औदारिककार्मणे शरीरे चशब्दात्तैजसं च सर्वाभिः 'विप्पजहणाहिति' विशेषेण प्रकर्षतो हानयस्त्यजनानि विप्रहाणयस्ताभिः सर्वथा शाटेनेति भावः, बहुवचनं चात्र व्यक्त्यपेक्षं, विप्रहाय परिशाट्य ऋजुरवका श्रेणिराकाशप्रदेशपतिस्तां प्राप्तः ऋजुश्रेणिप्राप्तः, अस्पृशद्गतिरिति कोऽर्थः ? खावगाहातिरिक्तनभःप्रदेशानस्पृशन् यावत्सु तेषु जीवोऽवगाढस्तावत एव समश्रेण्या स्पृशन्नित्यर्थः, ऊर्द्धमुपरि एकसमयेन द्वितीयादिसमयास्पर्शेन अविग्रहेण वक्रगतिलक्षणविग्रहाभावेन, अन्वयव्यतिरेकाभ्यामुक्तोर्थः स्पष्टतरो भवतीति ऋजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरस्याभिधानं, तत्रेति विवक्षिते मुक्तिपदे गत्वा साकारोपयुक्तो ज्ञानोपयोगवान् सिध्यतीत्यादि प्राग्वत् इति त्रिसप्ततिसूत्रार्थः ॥ ७२ ॥ ७४ ॥ ७३ ॥ ७५ ॥ उपसंहर्तुमाह ६ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy