________________
उत्तराध्ययन ॥२२५॥
मूलम्-पडिरूवयाए णं भंते ! जीवे किं जणयइ ? पडिरूवयाए णं लाघविअं जणयइ, लहुन्भुए
अंणं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसम्मत्ते सबपाणभूअजीवसत्तेसु वीससणिजरूवे अप्पडिलेहे जिइंदिए विउलतवसमिइसमन्नागए आवि भवइ ॥ ४२ ॥४४॥
एकोनत्रिंश मध्ययनम्. प्र४२
AAR
व्याख्या-प्रतिः सादृश्य, ततः प्रतीति-स्थविरकल्पिकादिसदृशं रूपं वेषो यस स प्रतिरूपस्तस्य भावः प्रतिरूपता तयाऽधिकोपकरणत्यागरूपया लाघवमस्यास्तीति लापविकस्तद्भावो लापविकता तां, द्रव्यतः खल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति । लघुभूतश्च जीवोऽप्रमत्तस्तथा प्रकटलिङ्गः स्थविरकल्पिकादिरूपेण विज्ञायमानत्वात् , प्रशस्तलिङ्गो जीवरक्षाहेतुरजोहरणादिधारकत्वात् , विशुद्धसम्यक्त्वः क्रियया सम्यक्त्वविशोधनात् , 'सत्तसमिइसम्मत्तेत्ति' सत्यं च समितयश्च समाप्ताः परिपूर्णा यस्य स समाप्तसत्यसमितिः, सूत्रे क्तान्तस्यान्ते निपातः प्राकृतत्वात् । अत एव सर्वप्राण-भूत-जीव-सत्त्वेषु विश्वसनीयरूपस्तत्पीडापरिहारित्वात् , अल्पप्रत्युपेक्षोऽल्पोपधित्वात् , जितेन्द्रियो विपुलेनानेकभेदतया विस्तीर्णेन तपसा समितिभिश्च सर्व विषयव्यापितया विपुलाभिरेव सम
UTR-3