________________
उत्तराध्ययन
॥ २२४ ॥
१५
१८
२४
अल्पकषायोऽकवायः, 'अप्पतुमतुमेति' अल्मविद्यमानं त्वं त्वमिति - खल्पापराधवत्यपि त्वमेवेदं कृतवान् त्वमेवेदं करोषीत्यादि पुनः पुनः अलपनं यस्य सोऽल्पत्वत्वः, संयमबहुलः संवरबहुलः प्राग्वत् । अत एव समाहितो ज्ञानाfreefaniचापि भवति ॥ ३९ ॥ ४१ ॥ ईदृशश्वान्ते भक्तं प्रत्याख्यातीति तत्प्रत्याख्यानमाह - मूलम् - भत्तपञ्चक्खाणेणं भंते ! जीवे किं जणयइ भत्तपच्चक्खाणेणं अणेगाई भवसयाइं निरंभइ ४० व्याख्या - भक्तप्रत्याख्यानेन भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, दृढशुभाध्यवसायेन संसारात्पत्वापादनात् ॥ ४० ॥ ४२ ॥ साम्प्रतं सर्वप्रत्याख्यानोत्तमं सद्भावप्रत्याख्यानमाहमूलम् — सम्भावपच्चक्खाणेणं भंते! जीवे किं जणयइ ? सम्भावपच्चक्खाणेणं अनिअहिं जणयइ, अनिअट्टिं पडिवन्ने अ अणगारे चत्तारि केवलिकम्मंसे खवेइ । तंजहा - वेअणिजं, आउअं, नामं, गोत्तं । तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वाइ, सबदुःकखाणमंतं करेइ ॥ ४१ ॥ ४३ ॥ व्याख्या - सद्भावेन सर्वथा पुनःकरणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीत्यर्थः तेन - न विद्यते निवृत्तिर्निर्वृत्तिमप्राप्य निवर्त्तनं यस्य सोऽनिवृत्तिः शुक्लध्यानतुर्यभेदस्तं जनयति तं प्रतिपन्नश्चानगारश्चत्वारि केवलिनः 'कम्मंसेत्ति' सत्कर्माणि केवलिसत्कर्माणि भवोपग्राहीणीत्यर्थः क्षपयति ॥ ४१ ॥ ॥ ४३ ॥ सद्भावप्रत्याख्यानं च प्रायः प्रतिरूपतायां स्यादिति तामाह
एकोनत्रिंशमध्ययनम्.
(२९)
प्र ४०-४१
UTR-3