________________
उत्तराध्ययन ॥२२॥
एकोनत्रिंश मध्ययनम्. (२९) प्र३३
लंबणस्स य आययट्टिआ जोगा भवंति, सएणं लाभेणं तुस्सइ, परस्स लाभं नो आसाएइ, नो तक्केइ, नो पीहेई, नो पत्थेइ, नो अभिलसइ।परस्स लाभं अणासाएमाणे अतक्के
माणे अपीहेमाणे अपत्थेमाणे अणभिलसेमाणे दोच्चं सुहसिजं उपसंपजित्ताणं विहरइ ॥ व्याख्या-सम्भोग एकमण्डलीभोक्तृत्वं, अन्यमुनिदत्ताहारादिग्रहणमित्यर्थः, तस्य प्रत्याख्यानं गीतार्थत्वे जिनकल्पाद्यभ्युद्यतविहारप्रतिपत्या परिहारः सम्भोगप्रत्याख्यानं तेन आलम्बनानि ग्लानत्वादीनि क्षपयति तिरस्कुरुते, अन्यो हि मान्द्यादिकारणेष्वन्यदत्तमाहारादिकं गृह्णाति असौ तु कारणेऽपि न तथेत्येवमुच्यते, सदोद्यतत्वेन वीर्याचारं चावलम्बते । निरालम्बनस्य चाऽऽयतो मोक्षः स एवार्थः प्रयोजनं विद्यते येषामित्यायतार्थिका योगा व्यापारा भवन्ति, सालम्बनस्य हि योगाः केचन तादृशा न भवन्त्यपीति । तथा खकेन खकीयेन लाभेन सन्तुप्यति, परस्य लाभं नो आखादयति न भुंक्ते, नो तर्कयति, नो स्पृहयति, नो प्रार्थयते, नो अभिलपति । तत्र तर्कणं यदीदं मह्यमसौ ददाति तदा शुभमिति विकल्पनं, स्पृहणं तत्श्रद्धालुतयाऽऽत्मन आविष्करणं, प्रार्थनं वाचा मह्यमिदं देहीति याचनं, अभिलषणं तल्लालसतया वाञ्छनं । एकार्थिकानि वा एतानि नानादेशोत्पन्नविनेयानुग्रहाय गृहीतानि । परस्य लाभमनाखादयन्नऽभुजानोऽतर्कयन्नऽस्पृहयन्नप्रार्थयमानोऽनभिलषन् 'दोचंति' द्वितीयां सुख
UTR-3