________________
उत्तराध्ययन ॥२१९॥
एकोनत्रिंश मध्ययनम्. प्र३२
व्याख्या-विविक्तानि ख्यादिरहितानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च यस्यासौ विविक्तशयनासनः तद्भावस्तत्ता तया चरित्रगुप्तिं चरणरक्षां जनयति, 'चरित्तगुत्ते अत्ति' गुप्तचरित्रश्च जीवो विकृत्यादिबृहकवस्तुरहित आहारों यस्य स तथा दृढचरित्रः, एकान्तेन निश्चयेन रत एकान्तरतः संयम इति गम्यते, मोक्षभावप्रतिपन्नो मोक्ष एव मया साधनीय इत्यभिप्रायवान्, अष्टविधकर्मग्रन्धि निर्जरयति, क्षपकश्रेणिप्रतिपत्या क्षपयति ॥ ३१ ॥ ३३ ॥ विविक्तशयनासनतायां सत्यां विनिवर्त्तना स्यादिति तामाह| मूलम्-विणिवट्टणयाए णं भंते ! जीवे किं जणयई ? विणिवट्टणयाए णं पावकम्माणं अकरणयाए
अब्भुट्टेइ, पूवबद्धाण य निज्जरणयाए तं निअत्तेइ, तओ पच्छा चाउरंतसंसारकंतारं
विईवयइ ॥ ३२ ॥३४॥ व्याख्या-विनिवर्तनया विषयेभ्य आत्मनः पराङ्मुखीकरणरूपया पापकर्मणां ज्ञानावरणादीनां 'अकरणयाएत्ति' आर्षत्वादकरणेन अपूर्वानुपार्जनेनाऽभ्युत्तिष्ठते मोक्षायेति शेषः, पूर्वबद्धानां निर्जरणया तदिति पापकर्म निवर्तयति विनाशयति ॥ ३२ ॥ ३४ ॥ विषयनिवृत्तश्च कश्चित् सम्भोगप्रत्याख्यानवानपि स्यादिति तदाहमूलम्-संभोगपच्चक्खाणेणं भंते ! जीवे किंजणयइ ? संभोगपच्चक्खाणेणं आलंबणाई खवेइ, निरा
UTR-3