________________
उत्तराध्ययन ॥२१६॥
एकोनत्रिंश मध्ययनम्. (२९) प्र२४-२६
मूलम्-सुअस्स आराहणयाए णं भंते ! जीवे किं जणयड ?
सुअस्स आराहणयाएणं अण्णाणं खवेइ न य संकिलिस्सइ ॥ २४ ॥ २६ ॥ व्याख्या-श्रुतस्याराधनया सम्यगासेवनया अज्ञानं क्षपयति, विशिष्टज्ञानावाप्तेः । न च संक्लिश्यते, नैव रागादिजनितसंक्लेशभाग् भवति, तद्वशतो नवनवसंवेगावाप्तः ॥ २४ ॥ २६ ॥ श्रुताराधना चैकाग्रमनःसंनिवेशनादेव स्यादिति तामाह
मूलम्-एगग्गमनसंनिवेसणयाए णं भंते ! जीवे किं जणयइ ?
एगग्गमणसंनिवेसणयाए णं चित्तनिरोधं करेइ ॥ २५ ॥ २७ ॥ व्याख्या-एकं च तदनं च प्रस्तावाच्छुभमालम्बनं एकाग्रं तस्मिन्मनसः संनिवेशना स्थापना एकाग्रमनःसंनिवेशना तया चित्तस्य कथञ्चिदुन्मार्गप्रस्थितस्य निरोधं नियंत्रणं चित्तनिरोधं करोति ॥ २५ ॥ २७ ॥ इदं सर्व संयमवतः सफलमिति तमाहमूलम्-संजमेणं भंते ! जीवे किं जणयइ ? संजमेणं अणण्हयत्तं जणयइ ॥ २६ ॥ २८॥ ___ व्याख्या-संयमेनाश्रवविरमणादिना 'अणण्हयत्तंति' अनंहस्कत्वं अविद्यमानपापकर्मत्वम् ॥ २६ ॥ २८ ॥ सत्यपि संयमे तपो विना न कर्मक्षपणेति तदाह
UTR-3