________________
उत्तराध्ययन
॥ २१५ ॥
m
m
१२
कर्मदलिका अल्पप्रदेशाग्राः प्रकरोति । आयुः कर्म च स्यात् कदाचिद्वभाति स्यान्न बनाति, तस्य त्रिभागादिशेषायुष्कतायामेव बन्धसम्भवात्, यदि बनाति तदा सुरायुरेव मुनेस्तद्वन्धस्यैव सम्भवात् । असातावेदनीयं च कर्म चशब्दादन्याश्चाशुभप्रकृतीर्नो भूयो भूय उपचिनोति, भूयो भूयो ग्रहणं तु केनापि प्रमादेन प्रमत्तमुनेस्तद्वन्धस्यापि सम्भवात् । अनादिकं आदिरहितं, अनवदग्रं अनन्तं, 'दीहमर्द्धति मकारोऽलाक्षणिकस्ततो दीर्घाद्वं दीर्घकालं, चत्वारश्चतुर्गतिलक्षणा अन्ता अवयवा यस्मिंस्तच्चतुरन्तं संसारकान्तारं क्षिप्रमेव व्यतित्रजति विशेषेणातिक्रामति ॥ २२ ॥ २४ ॥ अभ्यस्तश्रुतेन धर्मकथापि कार्येर्ति तामाह
मूलम् - धम्मकहाएणं भंते ! जीवे किं जणयइ ? धम्मकहाएणं पवयणं पभावेइ, पवयणपभावए णं जीवे आगमे सस्सभद्दत्ताए कम्मं निबंधइ ॥ २३ ॥ २५ ॥
व्याख्या - धर्मकथया व्याख्यानरूपया प्रवचनं शासनं प्रभावयति, उक्तं हि - " पावयणी १ धम्मकही २ बाइ ३ नेमित्तिओ ४ तस्सी ५ अ । विज्जा ६ सिद्धो अ ७ कई ८ अट्ठेव पहावगा भणिआ" पाठान्तरे निर्जरां जनयति, 'आगमे सस्समद्दत्ताएत्ति' आगमिष्यतीति आगम आगामी कालस्तस्मिन् शश्वद्भद्रतया निरन्तर कल्याण तयोपलक्षितं कर्म निबभाति, शुभानुबन्धि शुभमुपार्जयति इति भावः ॥ २३ ॥ २५ ॥ एवं पञ्चविधखाध्यायतेः श्रुताराधना स्यादिति तामाह
एकोनत्रिंशमध्ययनम्.
प्र २३
UTR-3