________________
उत्तराध्ययन ॥ २१३॥
एकोनत्रिंश मध्ययनम्. प्र२०-२१
आचारः श्रुतप्रदानरूपस्तीर्थधर्मस्तमवलम्बते, तं चावलम्बमान आश्रयन् महानिर्जरस्तथा महत्प्रशस्वं पर्यवसानं अन्तः प्रक्रमात्कर्मणां यस्य स महापर्यवसानश्च मोक्षावाप्तर्भवति.॥ १९ ॥ २१ ॥ कृतवाचनः संशये पुनः पृच्छतीति प्रच्छनामाहमूलम्-पडिपुच्छणयाएणं भंते ! जीवे किं जणयइ ? पडिपुच्छणयाएणं सुत्तत्थतदुभयाइं विसो
हेइ, कंखामोहणिजं कम्मं वोच्छिन्दइ ॥ २० ॥ २२ ॥ ___ व्याख्या-पूर्वकथितसूत्रादेः पुनः प्रच्छनं प्रतिप्रच्छनं तेनै सूत्रार्थतदुभयानि विशोधयति, 'कांक्षा' इदमित्थमित्थं वा ममाध्येतुमुचितमित्यादिका वाञ्छा सैव मोहनीयं कर्माऽनाभिग्रहिकमिध्यात्वरूपं व्युच्छिनत्ति ॥ २०॥ २२ ॥ इत्थं स्थिरीकृतस्य श्रुतस्य विस्मृतिर्माभूत् इति परावर्त्तना कार्येति तामाह
मूलम्-परिअट्टणयाएणं भंते ! जीवे किं जणयइ ?
परिअट्टणयाएणं वंजणाई जणयइ, वंजणलद्धिं च उपाएइ ॥२१॥ २३ ॥ व्याख्या-परावर्तनया गुणनेन व्यअनान्यक्षराणि जनयति, तानि हि विस्मृतान्यपि गुणयतो झगित्युत्पद्यन्त इति उत्पादितान्युच्यन्ते, तथा तथाविधक्षयोपशमवशाव्यञ्जनलब्धिं च-शब्दात् पदलब्धिं च पदानुसारितारूपामुत्पादयति ॥ २१ ॥ २३॥ सूत्रवदर्थस्याप्यविस्मरणाद्यर्थमनुप्रेक्षा कार्येति तामाह--
UTR-3