SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२० ॥ एकोनविंश मध्ययनम्. प्र३ स्तुषु विरज्यते, विरज्यमानश्चारम्भपरित्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां, तत्परित्यागं च कुर्वन् संसारमार्ग मिथ्यात्वाविरत्यादिकं व्यवच्छिनत्ति, तत्त्याग एव तत्त्वत आरम्भपरिहारसम्भवात् , तद्यवछित्तौ च सुप्राप एव मुक्तिमार्गः सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति ॥२॥४॥ निर्वेदोऽपि धर्मश्रद्धावतामेव स्यादिति तामाहमूलम्-धम्मसद्धाएणं भंते ! जीवे किं जणयइ ? धम्मसद्धाएणं सायासोक्खेसु रजमाणे विरजइ, अगारधम्मं च णं चयइ, अणगारे णं जीवे सारीरमाणसाणं दुक्खाणं छेयण-भेयण-संजो गाईणं वुच्छेअं करेइ, अवाबाहं च सुहं निवत्तेइ ॥ ३ ॥५॥ व्याख्या-धर्मश्रद्धया सातं सातवेदनीयं तजनितानि सौख्यानि विषयसुखानीत्यर्थः तेषु रज्यमानः पूर्व रागं कुर्वन् विरज्यते विरागं याति, अगारधर्म च गृहाचारं गार्हस्थ्यमित्यर्थः त्यजति जहाति, ततश्चाऽनगारो यतिः सन् जीवः शारीरमानसानां दुःखानां 'छेअणेत्यादि' 'छेदनं'खड्गादिना 'भेदनं' कुन्तादिना आदिशब्दस्येहापि सम्बन्धाच्छेदनभेदनादीनां शारीराणां संयोगः प्रस्तावादनिष्टानां आदिशब्दादिष्टवियोगादिग्रहस्ततोऽनिष्टसंयोगादीनां च मानसदुःखानां व्यवच्छेदं करोति, अत एव अव्यावाधं च सुखं निवर्तयति जनयति ॥३॥५॥ धर्मश्रद्धावता च गुर्वादेः शुश्रूषाऽवश्यं कार्येति तामाह १२ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy