________________
उत्तराध्ययन
॥ १९७ ॥
॥ अथ एकोनत्रिंशमध्ययनम् ॥
OROM.
अर्ह ॥ व्याख्यातमष्टाविंशमध्ययनं, अथ सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने मोक्षमार्गगतिरुक्ता सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽनेनाभिधीयते । इति सम्बन्धस्यास्येदमादिसूत्रम् -
मूलम् - सुअं मे आउ ! तेणं भगवया एवमक्खायें, इह खलु सम्मत्तपरक्कमे नामज्झयणे समणेणं भगवया महावीरेणं कासवेणं पवेइए । जं सम्मं सद्दहित्ता पत्तिआइत्ता रोअइत्ता फासित्ता पालइत्ता तीरइत्ता किट्टइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता बहवे जीवा सिज्झंति बुज्झंति मुच्चंति परिनिवायंति सङ्घदुःक्खाणमंतं करेंति ॥ १ ॥ व्याख्या - श्रुतं मे मया आयुष्मन्निति शिष्यामंत्रणं, एतच सुधर्मखामी जम्बूखामिनमाह, तेन जगत्रयप्रतीतेन भगवता प्रक्रमात् श्रीमहावीरेण 'एवमिति' वक्ष्यमाणप्रकारेणाख्यातं तमेव प्रकारमाह- इहास्मिन् प्रवचने खलु निश्चितं सम्यक्त्वे सति पराक्रम उत्तरोत्तरगुणप्रतिपत्या कर्मारिजयसामर्थ्य रूपोऽर्थाज्जीवस्य वर्ण्यतेऽस्मिन्निति सम्य
एकोनत्रिंशमध्ययनम्.
सू १
UTR-3_