________________
उत्तराध्ययन
॥ १६ ॥
१५
१८
२१
२४
किन्तु परोऽपि भवान्तररूपः । तत्रेह लोकाभावः कायक्लेशहेतुलो चादिसेवनात् परलोकाभावश्च कुगतिगमनात् । एवं च 'दुहओवित्ति' द्विधापि ऐहिकपार त्रिकार्थाभावेन स जन्तुः 'झिज्झइत्ति' ऐहिकपारत्रिकार्थसम्पत्तिमतो जनान् वीक्ष्य, धिग्मामुभयभ्रष्टमिति चिन्तया क्षीयते । तत्रेत्युभयलोकाभावे सति लोके जगति ॥ ४९ ॥ ततोऽसौ यथानुतापमापद्यते तथा दर्शयति
मूलम् – एमेवहाछंदकुसीलरूवे, मग्गं विराहितु जिणुत्तमाणं ।
"
कुररी विवा भोगरसाणुगिद्धा, निरद्वसोआ परितावमेइ ॥ ५० ॥
व्याख्या - एवमेवोक्तरूपेणैव महाव्रतास्पर्शनादिना प्रकारेण यथाछन्दाः खरुचिकल्पिताचाराः, कुशीलाश्च कुत्सितशीलास्तद्रूपास्तत्स्वभावाः, मार्ग विराध्य जिनोत्तमानां । कुररीव पक्षिणीव भोगरसानुगृद्धा निरर्थः शोको यस्याः सा निरर्थशोका परितापं पश्चात्तापमेति प्राप्नोति । यथा साऽऽमिषगृद्धा मुखात्तपिशितपेशिका परपक्षिभ्यो विपत्प्राप्तौ शोचति, न च ततः कोऽपि विपत्प्रतिकार इति, एवमयमपि भोगरसगृद्ध ऐहिकामुष्मिकापायप्राप्तौ । ततोऽस्य खान्यत्राणाक्षमत्वादनाथत्वमेवेति भाव इति सूत्रत्रयोदशकार्थः ॥ ५० ॥ इदं च श्रुत्वा यत्कार्य तदाह
मूलम् -- सोच्चाण मेहावि सुभासिअं इमं, अणुसासणं नाणगुणोववेअं । मग्गं कुसीलाण जहाय सवं, महानिअंठाण वए पहेणं ॥ ५१ ॥
विंशतितममध्ययनम्. (२०)
गा५०-५१
UTR-3