SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन विंशतितममध्ययनम् गा ४८-४९ मूलम्-न तं अरी कंठछित्ता करोति, जं से करे अप्पणिआ दुरप्पा । . से नाहिई मचुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो ॥४८॥ व्याख्या-न नैव तमिति प्रक्रमादनथे, अरिः कण्ठच्छेत्ता करोति, यं से तस्य करोत्यात्मीया दुरात्मता दुष्टाचारप्रवृत्तिरूपा । न चेमामाचरन्नपि जन्तुरत्यन्तमूढतया वेत्ति, परं स दुरात्मतासेवी ज्ञास्यति दुरात्मतां मृत्युमुखं तु मरणसमयं पुनः प्राप्तः । पश्चादनुतापेन हा ! दुष्टु मयानुष्ठितेयमित्येवंरूपेण, दयया संयमेन विहीनः सन् । यतश्चैवमनर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता, तत आदित एवासी त्याज्येत्यर्थः॥४८॥ यस्तु प्रान्तेऽपि मोहेन दुरात्मतां तथात्वेन न जानाति तस्य किं स्यादित्याह मूलम्-निरहिआ नग्गरुई उ तस्स, जे उत्तिमहं विवज्जासमेइ । ___ इमेवि से नत्यि परेवि लोए, दुहओवि से झिज्झइ तत्थ लोए ॥ १९ ॥ व्याख्या-निरर्थिका 'तु'शब्दस्यैवकारार्थस्खेह सम्बन्धानिरर्थिकैव निष्फलैव नाम्ये श्रामण्ये रुचिस्तस्य यः 'उत्तिमटुंति' सुपथ्यत्ययादपेव गम्यत्वादुत्तमार्थेऽपि प्रान्तसमयाराधनारूपे, आस्तां पूर्व, विपर्यासं दुरात्मतायामपि सुन्दरात्मताज्ञानरूपं एति गच्छति, यस्तु मोहमपोस दुरात्मतां तथात्वेन जानाति, तस्य तु खनिन्दादिना स्वादपि किञ्चित्फलमिति भावः । ततश्च 'इमेवित्ति' अयमपि प्रत्यक्षो लोक इति योगः, से तस्य नास्ति । न केवलमयमेव, UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy