________________
॥ अथ सप्तविंशमध्ययनम् ॥
उत्तराध्ययन ॥१७॥
॥ अहम् ॥ उक्तं षड्विंशमध्ययनं, सम्प्रति खलुकीयाख्यं सप्तविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने सामाचारी प्रोक्ता, सा चाशठतयैव पालयितुं शक्या, सापि तद्विपक्षभूतशठतात्यागेनैव स्यादितीह दृष्टान्तद्वारा शठताखरूपं निरूप्यते । इतिसम्बन्धस्यास्वेदमादि सूत्रम् ॥ | मूलम्-थेरे गणहरे गग्गे, मुणी आसि विसारए । आइण्णे गणिभावंमि, समाहिं पडिसंधए ॥१॥ __व्याख्या-धर्मे अस्थिरान् स्थिरीकरोतीति स्थविरः, गणं गुणसमूहं धारयतीति गणधरो गर्गो गर्गनामा, मुणति प्रतिजानीते सर्वसावद्यविरतिमिति मुनिः, आसीदभूत् , विशारदः सर्वशास्त्रेषु कुशलः, आकीर्ण आचार्यगुणैर्व्याप्तः, गणिभावे आचार्यत्वे स्थित इति शेषः । स समाधि चित्तसमाधानरूपं प्रतिसन्धत्ते कुशिष्यैस्त्रोटितमपि सङ्घटयत्यात्मन इति गम्यमिति सूत्रार्थः ॥ १॥ स च समाधि सन्दधत् यत् परिभावयति तदाह| मूलम्-वहणे वहमाणस्स, कंतारं अइवत्तइ । जोए वहमाणस्स, संसारं अइवत्तइ ॥२॥
व्याख्या-वहने शकटादौ 'वहमाणस्सत्ति' अन्तर्भावितणिगर्थतया वाहयमानस्य पुरुषस्य उत्तरत्र खलुकग्रह
UTR-3