________________
उत्तराध्ययन ॥१६९॥
| मूलम्-पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । राइअं तु अईआरं, आलोएज जहक्कम ॥ १९ ॥
पडिकमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं। काउस्सग्गं तओ कुज्जा, सबदुक्खविमोक्खणं ॥५०॥ व्याख्या-[स्पष्टे नवरं] 'वंदिताणत्ति' वन्दनकपूर्व क्षमयित्वा ततो वन्दित्वेति द्रष्टव्यम् ॥ ४९ ॥५०॥कायोत्सर्गस्थः किं कुर्यादित्याह
मूलम्-किं तवं पडिवजामि, एवं तत्थ विचिंतए ।
काउस्सग्गं तु पारित्ता, वंदई उ तओ गुरुं ॥५१॥ व्याख्या-किं रूपं तपो नमस्कारसहितादि प्रतिपद्येऽहमेवं तत्रोत्सर्गे विचिन्तयेत् । वीरो हि भगवान् षण्मा| सान्निरशनो विहृतवान् तत्किमहमपि निरशनः शक्तोऽस्म्येतावन्तं कालं स्थातुमुत नेति ? एवं पञ्चमासाद्यपि यावनमस्कारसहितं तावत्परिभावयेत् ॥५१॥ पूर्वसूत्रोत्तरार्दोक्कमर्थमनुवदन् सामाचारीशेषमाहमूलम् पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवजित्ता, करिज सिद्धाण संथवं ॥५२॥ ___ व्याख्या-तवमित्यादि-तपो यथाशक्ति चिन्तितं सम्प्रतिपद्य कुर्यात् सिद्धानां संस्तवं स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयमिति सार्द्धत्रयोदशसूत्रार्थः ॥ ५२ ॥ अथाध्ययनार्थोपसंहारमाह
UTR-3