________________
उत्तराध्ययन ॥१६६॥
षड्विंशमध्ययनम्. (२६) गा४०-४२
पादिनकृत्यमुक्त्वा रात्रिकृत्यं सार्द्धत्रयोदशसूत्रैराह । काउस्सग्गमित्यादि-'तओत्ति' ततः प्रश्रवणादिभूमिप्रतिले खनानन्तरम् ॥ ३९ ॥ कायोत्सर्गे स्थितश्च यत्कुर्यात्तदाहमूलम्-देसिअंच अईआरं, चिंतिज अणुपुवसो । नाणे अदंसणे चेव, चरित्तंमि तहेव य ॥४०॥ __व्याख्या-'देसिअंति' सूत्रत्वावसिकं, अतिचारं चिन्तयेदानुपूर्व्या क्रमेण प्रातः प्रतिक्रमणे प्रथममुखवस्त्रिकाप्रत्युपेक्षणादारभ्यामुं कायोत्सर्ग यावदित्यर्थः । किं विषयमतिचारं चिन्तयेदित्याह-ज्ञाने चेत्यादि ॥ ४०॥ मूलम्-पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । देसि तु अईआरं, आलोइज जहक्कम ॥ ४१ ॥
व्याख्या-पारितकायोत्सर्गो वन्दित्वा द्वादशावर्त्तवन्दनेन, तत इत्यतिचारचिन्तनानन्तरं गुरुं । दैवसिकं, तुः पूत्तौं, अतिचारमालोचयेत् प्रकाशयेत् यथाक्रमम् ॥ ४१॥ मूलम्-पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं। काउस्सग्गं तओ कुज्जा, सबदुक्खविमोक्खणं ४२
व्याख्या-प्रतिक्रम्यापराधस्थानेभ्यो निवर्त्य निःशल्यो मायाशल्यादिरहितः 'वंदित्ताणत्ति' सूचकत्वात्सूत्रस्य वन्दनकपूर्व क्षमयित्वा वन्दित्वा च गुरुवन्दनेन ततो गुरुं, कायोत्सर्ग चारित्रदर्शनज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयरूपं, जातावेकचनम् ॥ ४२ ॥
UTR-3