________________
उत्तराध्ययन ॥१५६॥
पशिमध्ययनम्.
गा १९-२०
व्याख्या-'बिइअंति' द्वितीयायां ध्यानं धर्मध्यानं, तृतीयायां निद्रायाः पूर्वरुद्धाया मोक्षो मुत्कलनं निद्रामोक्षः तं कुर्यात् , वृषभापेक्षं चैतत् , सामस्त्येन तु प्रथमचरमयामजागरणमेव । तथा चागम-“सत्वेऽवि पढमजाम, दोण्णि उ वसहाण आइमा जामा । तइओ होइ गुरूणं, चउत्थओ होइ सोर्सि" इति ॥१८॥ अथ रात्रिभागचतुष्कज्ञानोपायभुपदर्शयन् समस्तयतिकृत्यमाहमूलम्-जं नेइ जयारत्तिं, नक्खत्तं तम्मि नहचउम्भाए।संपत्ते विरमिज्जा, सज्झाय पओसकालंमि १९ ___ व्याख्या-यन्नयति प्रापयति समाप्तिमिति गम्यते, यदा रात्रि क्षपां नक्षत्रं, यस्मिन् दिने यस्मिन्नक्षत्रेऽस्तमिते रात्रिपर्यन्तो भवतीतिभावः । तच नक्षत्रं रविनक्षत्रात् प्रायश्चतुर्दशं भवतीति वृद्धाः । तस्मिन्नक्षत्रे नमश्चतुर्भागे | सम्प्राप्ते विरमेत् निवर्तेत, 'सज्झायत्ति' स्वाध्यायात्प्रदोषकाले रात्रिमुखे प्रारब्धादिति शेषः ॥ १९॥ मूलम् तम्मेव य नक्खत्ते, गयण चउब्भागसावसे संमि। वेरत्तिअंपि कालं, पडिलेहित्ता मुणी कुज्जा २०
व्याख्या-तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते ‘गयणत्ति' गगने, कीदृशे ? चतुर्भागेन गन्तव्येन सावशेषं चतुर्भागसावशेष तस्मिन् , वैरात्रिकं तृतीयं, अपिशब्दान्निजनिजसमये प्रादोषिकादिकं च कालं, 'पडिलेहित्तत्ति' प्रत्युपेक्ष्य प्रतिजागर्य मुनिः कुर्यात् , करोतेः सर्वधात्वर्थव्यासत्वाद्गृहीयात् । इह च प्रथमादिषु नभश्चतुर्भागेषु सम्प्राप्ते
UTR-3