________________
उत्तराध्ययन ॥१४६॥
पञ्चविंशमध्ययनम्. (२५) गा ३८-४१
___ व्याख्या-'जइअत्ति' यष्टारः यूयं वेदविदो हे विदः ! हे यथास्थिततत्त्वज्ञाः ! ॥ ३७॥ मूलम्-तुम्भे समत्था उद्धत्तुं, परं अप्पाणमेव यातमणुग्गहं करेहा, भिक्खेणं भिक्खउत्तमा ॥३८॥
व्याख्या-'तमणुग्गहंति' तत्तस्मात् अनुग्रहं कुरुतास्माकं 'भिक्खेणंति' भैक्ष्येण भिक्षाग्रहणेन हे भिक्षत्तम ! इति सूत्रचतुष्कार्थः ॥ ३८ ॥ एवं द्विजेनोक्ते मुनिराह
मूलम्-न कजं मज भिक्खेणं, खिप्पं निक्खमसू दिआ।
मा भमिहिसि भयावत्ते, घोरे संसारसागरे ॥३९॥ व्याख्या-न कार्य मम भैक्ष्येण किन्तु क्षिप्रं निष्काम प्रव्रज हे द्विज ! मा भ्रमीः भयानि इहलोकभयादीनि आवर्ता इव आवतों यस्मिन् स तथा तस्मिन् घोरे संसारसागरे ॥ ३९॥ मूलम्-उवलेओ होइ भोगेसु, अभोगी नोवलिप्पइ । भोगी भमइ संसारे, अभोगी विप्पमुच्चइ ॥४०॥
ब्याख्या--उपलेपः कर्मोपचयरूपो भवति भोगेषु भुज्यमानेष्विति शेषः, अभोगी नोपलिप्यते कर्मणेति शेषः, ततश्च भोगीत्यादि स्पष्टम् ॥ ४० ॥ भोगिनामुपलेपमन्येषां च तदभावं दृष्टान्तद्वारेणाह
मूलम्-उल्लो सुक्को अ दो छूढा, गोलया महिआमया।
दोवि आवडिआ कुड्डे, जो उल्लो सोऽत्थ लग्गइ ॥४१॥
UTR-3