________________
उत्तराध्ययन ॥१४४॥
पञ्चबिंशमध्ययनम्.
गा३०-३२
कर्मबलवर्द्धकत्वादिति भावः । ततो नानयोर्योगात् ब्राह्मणः स्याकिन्तु पूर्वोक्तगुणयुक्त एवेति तत्त्वम् ॥२९॥ अन्यच्च मूलम्-नवि मुंडिएण समणो, न ॐकारेण बंभणो। न मुणीरपणवासेणं, कुसचीरेण न तावसो॥३०॥
व्याख्या-न नैव, अपिः पूतों, मुण्डितेन श्रमणो निर्ग्रन्थो भवतीति शेषः । न 'ॐकारेणत्ति' ॐभूर्भुवःखरित्यादिना ब्राह्मणः, न मुनिररण्यवासेन, कुशो दर्भविशेषस्तन्मयं चीरं कुशचीरं वल्कलोपलक्षणमिदं तेन न तापसः॥३०॥ तर्हि कथमेते भवन्तीत्याहमूलम्-समयाए समणो होइ, बंभचेरेण बंभणो। नाणेण य मुणी होई, तवेणं होइ तावसो ॥३१॥ ___ व्याख्या-[स्पष्टा] तथा ॥३१॥ मूलम्-कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ। कम्मुणा वइसो होइ, सुद्दो हवइ कम्मुणा॥३२॥ ___ व्याख्या-कर्मणा क्रियया ब्राह्मणो भवति, यदुक्तं-"क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिघृणा । ज्ञानं विज्ञानमास्तिक्य-मेतद्राह्मणलक्षणम् ॥१॥" तथा कर्मणा क्षतत्राणलक्षणेन भवति क्षत्रियः, वैश्यः कर्मणा कृषिपाशुपाल्यादिना भवति, शूद्रो भवति कर्मणा शोचनहेतुप्रैषादिसम्पादनरूपेण । कर्मनानात्वाभावे हि ब्राह्मणादिव्यपदेशानामभाव एवेति । ब्राह्मणावसरे च यच्छेषाभिधानं तद्याप्तिदर्शनार्थम् ॥ ३२ ॥ किमिदं स्वबुद्ध्यैवोच्यत इत्याह
१ "ॐ भूर्भुवःखस्तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् " ॥
॥४७६॥
UTR-3